SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [i २०६ श्रीमदरिसिंहविरचितं इति लक्ष्मीलतोल्लास-सुधया तद्गिरा चिरम् । प्रीतः किञ्चिद् विचिन्त्यान्त-र्जगाद जगतीपतिः ॥ १४ वस्तुपालवंशवर्णनम् पुरा प्राग्वाटवंशाग्र-जाग्रत्कीर्तिलताततिः । राज्येऽस्मिन् महसा, चण्डश्चण्डपः सचिवोऽभवत् ॥ १५ क्षीरोदसोदरो यस्य, यशोराशिनिशाकरम् । भ्रातृव्योऽयमिति स्वर्गि-भुक्तिभीतमगोपयत् ॥ १६ तद्भश्चण्डप्रसादाख्यो, दक्षिदाक्षिण्यभूरभूत् । गृह्णन्ति यद्गुणान् दक्षा, लक्ष्यन्ते न च तेषु ते॥ १७ दासः कैलासभूमीभृद्, भुजिष्यो भुजगेश्वरः । किङ्करः शङ्करोत्तंस-शशी यद्यशसामभूत् ॥ ४८ कीर्तिकल्लोलितव्योमा, सोमाख्यस्तत्सूतोऽजनि । न्यतिष्ठन्नर्थिनो नार्था, यस्मिन् यच्छति वाञ्छितम् ।। - अस्याऽऽसीत् कोऽपि न स्वामी, सिद्धाधिपतिना विना । विना जिनाधिपेनाभूद् , यस्य देवोऽपि कोऽपि नो ॥ तद्भः कीर्तिभरैरश्व-राजो विश्वमराजयत् । तीर्थयात्रा व्यधात् सप्त, यः सप्तनरकच्छिदे ।। त्रैलोक्यादुत्तमं वीक्ष्य, ये माता-पितृभक्तिभिः । भक्तये स्पृहयेन्माता-पितृभ्यामात्मभूरपि ॥ आसीत् कुमारदेवीति, प्रीतिभूरस्य वल्लभा । या जैनधर्मधुर्याऽपि, गौरीवल्लभभक्तिभाक् ।। तयोस्त्रयोऽभवन् पुत्रा, रिपुत्रासकरौजसः । यत्कीर्तिभिर्द्वितीयेव, त्रिस्रोताः समजन्यत ॥ प्रथमः प्रथितस्तेषां, मल्लदेवो धियांनिधिः । स्वाराज्ये गुरुबुद्धीनां स्वराज्यमतनिष्ट यः ॥ ५५. धीमानास्तेऽनुजस्तस्य, वस्तुपालः कलास्पदम् । अनुजेनान्वहं तेजःपालेनाराधितक्रमः ॥. - ५६ इमौ ग्रन्थाब्धिमन्थानौ पन्थानौ श्रीसमागमे । तुभ्यं समर्पयिष्यामि, मन्त्रिणौ तौ तु मित्रयोः ॥ ५७ इत्युक्त्वा मुदिते वीर-धवलेऽसौ धराधवः । आहूय तौ स्वयं प्राह, नमन्मौली सहोदरौ ।। • ५८ युवां नरेन्द्रव्यापार-पारावारैकपारगौ । कुरुतां मन्त्रितां वीर-धवलस्य मदाकृतेः ॥ ५९ युवाभ्यामेव नेत्राभ्यां, चक्षुष्मानस्य विक्रमः । आलोक्यालोक्य निःशेषा-नपि द्विष्टान् पिनष्टु मे ।। ६० किञ्च प्रपञ्चयतमेव युवां जिनेन्द्र-धर्म जिनेन्द्रपदपद्मयुगद्विरेफो । स्वप्नावलोकितनृपालकुमारपाल-सन्दिष्टमिष्टतममेतदवश्यकार्यम् ॥ ६१ आस्थानमण्डपशिरःप्रतिशब्ददम्भात् , केनाप्यदृष्टमरुताऽनुमतो हि तेन । शिक्षामिति क्षितिपतिः स तदा प्रदाय, वीराय वीरधवलाय मुदाऽऽर्पयत् तौ ॥ ६२ किञ्च कल्पान्तेषु यशोभरे तव हरिर्दुग्धाब्धिवासस्मय, मार्तण्डस्त्रिदिवापगारयपयःस्नानोत्सवं लप्स्यते । मिथ्योक्तिः कवितेति नात्र वचसि श्रद्धाऽस्ति चेत् तच्चिरं, नन्द श्रीस्तुत वस्तुपाल ! भवतु प्रत्यक्षमेतत् तव ॥ . १ ख-ग-पुस्तके-दाक्ष्यदां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy