SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] . सुकृतसंकीर्तनमहाकाव्यम् । दुष्टामात्यनिषिद्धस्य, येनाकल्पि बलीयसा । राज्य ते मत्प्रसादाना-मनृणीकारकारणम् ॥ १९ सुतस्तस्याऽस्ति लावण्य-प्रसादो युधि यद्भुजः । असि जिह्वामिवाकृष्य, रिपुप्रासाय सर्पति ॥ २० युद्धमार्गेषु यस्याऽसिः, प्रतापप्रसरोष्मलः । अतीवारियशोवारि, पायं पायं न निर्ववौ ॥ प्रतापतापिता यस्य, निमज्ज्यासिंजले द्विषः । भीताः शीतादिवासेदुः, सद्यश्चण्डांशुमण्डलम् ॥ २२ सर्वेश्वरममुं कुर्व-नुर्वीमण्डलमण्डनम् । भविष्यसि श्रियो भर्ता, सुखाम्भोधिचतुर्भुजः ॥ २३ अस्याऽस्ति च सुतो वीर-धवलः प्रधनाय यः । भार्गवस्य पुनः क्षत्र-क्षयसन्धां समीहते ॥ २४ भ्रुवमारोपितां यस्य, युधि वीक्ष्याधिकश्रियम् । भुवि भ्रष्टं द्विषां चापैः, सज्जितैरपि लज्जितैः ।। यं विलोक्यातुलं विश्वे, दानेन च बलेन च । पश्यत्युपेन्द्रमिन्द्रोऽपि, श्वभ्रोत्थितबलिभ्रमात् ॥ रिपुभूमिशिरोरत्नी-भूतक्रमनखत्विषे । दत्त्वाऽस्मै दोष्मते यौव-राज्यं राज्यं चिरं कुरु ॥ २७ किञ्च स्वःसीम्नि येनाह मनाहतगतिः कृतः । तं कथञ्चित् कलौ जैन, धर्म मजन्तमुद्धर ॥ इति श्रुत्वा नृपः स्मित्वा, लग्नस्तत्पादपद्मयोः । ग्रहीतुमिव पाणिभ्यां, पद्मवासामिव श्रियम् ॥ २९ प्रसादसादरस्तस्य, मूर्ध्नि देवोऽप्यधात् करम् । कमलं कमलागेह-मिव स्नेहवशंवदः ॥ प्रातस्तूर्यस्वने सूर्यो-दयशंसिनि भूभुजः । निद्रा नेत्राजमुद्राकृ-दथ रात्रिरिवावजत् ॥ ३१ अथ विस्मितादृश्वा, महीपो दीपदीधितिः । साक्षाद् देवः किलास्तीति, मञ्ज पर्यमत्यजत् ॥ ३२ 'अथानणुमणिस्तम्भ-प्रभविष्णुप्रभां सभाम् । अमजद् भूभुजङ्गोऽयं कृतप्राभातिकक्रियः ।। ततः क्षितिपतेरस्य, प्रेतापेनेव निर्जितः । आगत्य प्रातरात्मानं, भानु शमदीदृशत् ॥ स्फुरन्तः स्वप्रतापाग्नि-स्फुलिङ्गा इव संसदि । मण्डलेशा व्यलोक्यन्त, सेवावन्तः क्षितिक्षितः ॥ राजा दृग्भ्यां सुंधाकुम्भ-सग्भ्यामभ्यषिञ्चत । देवादिष्टौ पितृसुतौ, सर्वेश्वरपदे हृदा ॥ अभाषिष्ट सभाशिष्ट-समक्षमथ पार्थिवः । प्रसादसान्द्रलावण्य-प्रसादाय मुदा वचः ॥ अस्मिन् कृतोऽस्मि राज्ये त्व-पित्रा वित्रासितद्विषा । विध्यायन्तीमिमां भूति-मुद्भावयतु तद् भवान् ।। गृहाण विग्रहोदग्र-सर्वेश्वरपदं मम । युवराजोऽस्तु मे वीर-धवलो धवलो गुणैः ॥ प्रार्थितो प्रार्थनीयेऽर्थे, प्रार्थनीयेन भूभृता । देवादेशः प्रमाणं नौ, तावूचतुरिदं मुदा ॥ ४० पाणी संपुट्य रुन्धानो, लोलां भृङ्गीमिव श्रियम् । पुनर्व्यजिज्ञपद् वीर-धवलो धरणीधवम् ।। न मे स्वामिन्नमात्योऽस्ति, यं विना विक्रमी हरिः । अब्दे शब्दो रे कुम्भि-भ्रान्त्योत्प्लुत्य पतत्यधः ॥ दक्षः शस्त्रे च शास्त्रे च धने च प्रधने च यः । तममात्यं ममात्यन्त-गुणप्रगुणमर्पय ॥ १ क-ग प्रतापेन विनिर्जितः ॥ २ कपुस्तके-क्षितिक्षताः । ख-गपुस्तके-क्षितिक्षिताः ॥ ३ कपुस्तके-सुधाकुण्ड ॥ सु. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy