________________
श्रीमदरिसिंहविरचितं
श्रीवस्तुपालसचिवस्तुतिनित्यरक्तान् पुंसस्तथाऽत्यजद किञ्चनता विरक्ती । मन्दैव दैववचसाऽपि यथा प्रयाति, न प्रातिवेश्मिकनिकेतमुखेऽपि तेषाम् ॥ श्रीवस्तुपालाभिधमन्त्रिभर्तु-र्भूरब्दलेखेव तमालनीला । अभ्युल्लसन्ती जलराशिसम्न्नि, रिपुप्रतापानलशान्तयेऽभूत् ॥ एनं प्रबन्धमयमुद्धुरवादिवृन्द-वक्त्रारविन्दर जनीरमणोऽरिसिंहः । श्रीवस्तुपालचरितामृतसिन्धुवीचि -संवावदूकमुचितं रचयाञ्चकार ॥ प्रतिसर्गं प्रबन्वेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि काव्यान्यमरपण्डितः ॥ ॥ इति सुकृतसंकीर्त्तननाम्नि महाकाव्ये चौलुक्यान्वयवर्णनो. नाम द्वितीयः सर्गः ॥ २ ॥
अथ· पृथ्वीपतिं प्रीति-लताकन्दमिवाऽऽत्मनः । वचनामृतवीचीभिर्देवोऽसावित्यसिश्चत ॥ राजा कुमारपालो -ऽर्हद्धर्माप्तिस्वर्गवैभवः । प्राप्तः पितामहस्तेऽहं, स्नेहं दुस्थे दधत् त्वयि ॥ सदर्पमर्पयिष्यामि, तवाऽहं राज्यवाहकम् । वत्स ! विद्योत्स्यसे तेन, पवनेनेव पावकः ॥ चुलुक्यकुलकान्तार-गजः श्रीधवलाङ्गजः । रिपुसर्पसुवर्णोऽभू-दर्णोराजमहीभुजः ॥ यद्भयप्रभवस्वेद-पयःपरिचयैरिव । राज्यश्रीलिपयो लुप्ता, भालेषु प्रतिभूभृताम् ॥
वीरधवलवंशवर्णनम्
अथादर्शि निशाशेषे, कृशाशेषविभूतिना । स्वप्ने कदापि भूपेन, कोऽपि श्रीभासुरः सुरः ॥ धात्र्या धर्त्तुं न शक्योऽय-मिव्यङ्घ्रितलमीयुषः । वासुकेः फणवद् बिभ्रन्नखरत्नजुषोऽङ्गुलीः ॥ हारान्तपद्मरागस्य, प्रभारागमिवाद्भुतम् । अधः परिदधद् वासः, कान्तादृकोणशोणरुक् ॥ कराग्ररोपणान्नीतै- रसमानैः समानताम् । लज्जितानूर्मिकारत्नैर्नखान् दधदधोमुखान् ॥ सेवकेषु दृढद्वेषिजये (यं) दातुमिवाऽऽवहन् । सुरचापचयं दोर्भ्यां रत्नकङ्कणकान्तिजम् ॥ प्रज्वलन्मणिकेयूर-प्रभापूरच्छलादयम् । भुजोष्मार्चिष्मदुत्तालज्वालाजालमुदञ्चयन् ॥ लावण्यामृतपूर्णास्य- स्यन्दिबिन्दुकदम्बवत् । कलयन्नुरसि व्यक्तं, हारमुक्ताकलापकम् ॥ हृद्वर्तिनः प्रसादस्य, प्रासादस्याद्भुतश्रियाम् । वैजयन्तीमिवाविभ्र दास्ये शुभ्रां स्मितद्युतिम् ॥ कपोलयोरिवामान्तीः, कान्तीराव पिण्डिताः । दधानः कर्णयोः स्वर्ण-कर्णिकायुगलच्छलात् ॥ परितः स्फुरितज्योति-र्जटापटलपेशलम् । मौलौ नीलमणि बिभ्रत्, केशवल्ल्यादिकन्दवत् ॥ विहरच्चिकुरज्योति-र्झलकारोर्मिकोमलाः । दधद्धम्मिल्लमाल्यान्त-र्भ्रान्तिभ्रमरधोरणीः ॥
I
1
[ द्वितीं
Jain Education International
४
For Private & Personal Use Only
१
२
९
१०
११
१२
१३
१४
I w 2 v
१५
युवि व्यभासि यस्यासि-र्जय श्रीनाटिकानटः । पारिपार्श्वकवत् पार्श्व वर्तिना समवर्त्तिना ॥ मयाऽसौ विक्रमकीत मनसा घनसाहसः 1 अकारि कारणं श्रीणां भीमपल्लीपुरप्रभुः ॥ १८
१६
१७
www.jainelibrary.org