SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] सुकृतसंकीर्तनमहाकाव्यम् । भृगोः सुतेनेव जिनस्य धर्म-मुल्लास्य येन स्मितमार्गणेन । क्षतक्षमेरमन्नववर्मनैव, हंसैरिवाशोभि जगद् यशोभिः ॥ सितांशुना कीर्तिविनिर्जितेन, ज्योत्स्नाततिौकनिकीकृतेव । न्यक्षेपि येनानुपुरं विहार-च्छलेन दृक्कैरवहर्षहेतुः ॥ युधि स्वयं यः किल जाङ्गलेशं, बली विजिग्ये किमु चित्रमत्र ? । अनूपभूपो वणिजाऽपि यस्य, यतो जितः कौङ्कणचक्रवर्ती ॥ अजयपालदेवः • अथोरुधामाऽजयदेवनामा, ररक्ष दक्षः क्षितिमक्षतौजाः । न केऽपि कारस्कुहरेऽप्यरण्य-देशेऽपि नो यस्य ममुर्द्विषन्तः ।। सपादलक्षप्रभुणा प्रदत्ता, रौक्मी बभौ मण्डपिका सभायाम् । सेवागतो मेरुरिव स्थिरत्व-जितो भृशं यस्य कृशप्रतापः ॥ बालमूलराज तदङ्गजो दिग्गजदन्तशय्या-विश्रान्तकीर्त्तिः किल मूलराजः । तुरष्कशीर्षाणि शिशुर्जयश्री-लताफलानीव लसन्नगृह्णात् ॥ यस्मिन् सदोच्चैःशिरसि प्रतीची-महीभृति स्फारबलाम्बुराशौ । अस्तं समस्तारियशःशशाङ्क-प्रतापचण्डद्युतिमण्डलाभ्याम् ॥ भीमदेवः श्रीभीमदेवोऽस्ति निरर्गलोग्र-भुजार्गलग्रस्तसमस्तशत्रुः ।। विभ्रत् करे भूवलयं पयोधि-वेलामिलन्मौक्तिकमस्य बन्धुः ।। आजन्म सम धुसदां मदेक-क्षणप्रदानात् क्षयमेष मा गात् । इति स्मरन् यः कनकानि दातु-मुन्मूलयामास न हेमशैलम् ॥ यदानमश्रावि सदानुभूत-मेवार्थिभिर्गीतिषु खेचरीणाम् । विलासहेमाद्रिषु मेरुपाद-धियाऽऽगतानां स्वगृहोपकण्ठे ॥ सततविततदानक्षीगनिःशेषलक्ष्मी-रितसितरुचिकीर्तिीमभूमीभुजङ्गः । बलकवलितभूमीमण्डलो मण्डलेशै-श्चिरमुपचितचिन्ताचान्तचिन्तान्तरोऽभूत् ॥ ५१ किश्च-. ___ स्वर्धेनु-शाखि-मणयः ! किमु यूयमेवं, लीनाः सुराचलशिलासु विसंस्थुलासु। . . भूमि विभूषयत कोऽपि न याचते वः, श्रीवस्तुपालसचिवस्तु सनातनायुः ॥ १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy