________________
१०२ श्रीमदरिसिंहविरचितं
मितीयं सवार्धिमुर्वीमपि ये भुजेना-न्वहं वहन्तः क्षितिपा न खिन्नाः। .. क्ष्मालेशजैर्मूर्ध्नि घटैः क तेषां, खेदोऽस्तु यद्द्वारि सवारिलेशैः ॥ . . २७ युग्मेन यस्यासिलता प्रताप-कीर्ती प्रसूयाऽरमयत् कृतार्था । उच्चै रवीन्दुद्विककन्दुकश्री-शिल्पे बलान्दोलिनि विश्वतल्पे ॥. धृता चिरं या हृदये निरस्ता, सा कालिका यजनितप्रसत्या। विलग्नहिञ्जीरकिणच्छलेन, स्थातुं पपात द्विषतां पदेषु ॥ यस्य द्विषां कण्टककूटकोटि-क्षतानि कान्तारजुषां तनू षु । नव्यानि नित्यं भृशमापुराप-नवाङ्गनासङ्गनखाङ्कशोभाम् ।। . . इष्टैः स्मृतैरप्यपरैः प्रकृष्टै-ररक्षिता यस्य युधि क्षतेभ्यः । त्रस्ताः श्वसन्तो रिपवः समस्ता, व्यस्तारयन् नास्तिकदृष्टिसृष्टिन् ।। अपि द्विषः प्रागकृतप्रहारा-नभिन्दतामात्मचमूभटानाम् । स्पर्शेन पूतानपि यस्तुरङ्गान् , गङ्गाम्भसि क्षालयति स्म कीत् ॥ यः सञ्चरन् बर्बरखेचरस्य, स्कन्धाधिरूढो रचयाञ्चकार । मुखश्रिया सेन्दु दिवाऽपि देह-द्योतेन दोषाऽपि नभः सभानु ॥ यदीयकारागृहमाप्य धारा-पतियशोवर्मनृपः सिषेवे । कम्पैः सदा बाष्पपयोभिरुष्ण-श्वासैश्च कालत्रयमेककालम् ।। यत्कारितं सिद्धसरः सरस्वत्-पाताऽपि पातुं घटभूरशक्तः । न प्राग्यशोभङ्गभयादुपैति, च्छदैव विन्ध्याचलवृद्धिरक्षा ॥ श्रीसोमनाथोऽपि कृपैकपात्रं, यं मातृभक्त्यैकशुचिं विलोक्य । दक्षक्रतुब्रह्मशिरश्छिदादि-पापोर्मिनिर्मुक्तममन्यत स्वम् ॥ विश्वं जगद् येन विजित्य कीर्ति-स्तम्भस्तथा कोऽपि महानकारि । यथा हिमादेरिव यस्य मूर्ध्नि, नभोनदी केतुपदं प्रपेदे ॥ लीलावलुप्तद्विजनायकस्य, यशःकुमारस्य कथाप्रथाभिः ।
विलज्जितो यः सततं द्विजेन्द्र-स्थानप्रदानव्यसनी नरेन्द्रः ॥ . . ३८ कुमारपालदेवः
तन्वत्यथाहर्गमनं सुधाभेद्-बुधालिगोष्ठीरसवञ्चितेऽस्मिन् । कुमारपालः किल भूमिपालः, श्रियं मुमोष द्विषतां सरोषः ॥ हठाद्धरन्तं श्रियमब्जिनीनां, राजानमस्ते सति धामनाथे । .
यशो भटैर्यः प्रकटैय॑कार्षी-दभर्तृकस्त्रीधनमुक्तिधन्यः ।। १ क-ख - भियुधालि° ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org