________________
१०
शिवम् .
सुकृतसंकीर्तनमहाकाव्यम् । दुर्लभराजः
अभूतथ् न्यायपरः परस्त्री-सुदुर्लभो दुर्लभराजराजः । यः कृष्णसाम्ये कथितेः कवीन्द्र-विचिन्त्य गोपीचरितं ललज्जे ॥ तमीदिने व्यत्ययतो वितेनु-र्यद्वैरिणः प्राप्य महीधरन्ध्रम् ।
तदौषधीदीपितमाप्रदोषात् , तमिस्रमिश्रं पुनराप्रभावात् ।। भीमराजः
अथावनीशोऽजनि शौर्यसीमा, भीमाभिधो येन युधि द्विषन्तः । श्रीभीम ! रक्षेति हरं स्मरन्तः, स्वध्यानबुद्धया मुदितेन मुक्ताः ॥ वित्रस्यतो मालवभूमिभर्तु-भ्रष्टेंऽशुके गुप्तधृतत्रपस्य । यत्सैन्यधूलीभिरदृश्यवक्त्रा-म्भोजस्य भोजस्य हृदा न दीर्णम् ।। सर्वत्र सञ्चारिषु यच्चरेषु, चरन्नरण्येऽरिनरेन्द्रवर्गः ।
दरेण नस्यल्लघुकन्दरेऽपि, गुणाय काय गणयाम्बभूवे ॥ कर्णदेवः
श्रीकर्णदेवोऽथ नृपत्रिलोक-विलोकनीयद्युतिराशिरासीत् । ये वीक्ष्य नारीहृदयैकवासो-धिकं हियाऽभून्मदनोऽप्यनङ्गः ॥ पूजासु पाणिस्थितपुष्पमाल-मालोकयन् यं पुरतः पुरारिः । क्रुद्धोऽपि पुष्पायुधयुद्धबुद्धया, भेजे भवानीहसितः प्रसत्तिम् ॥ सम्पालयन्तो यदरीन् दरीषु, स्फुटं कुटुम्बित्वगता गिरीन्द्राः । अद्यापि दीप्तौषधिदीपदीप्ताः, क्षपां सशङ्काः क्षपयन्ति शङ्के । जित्वा बलैर्मालवभूमिपाल-मानीतवान् यः किल नीलकण्ठम् ।
तन्मूर्ध्नि सिन्धुप्रथिताध्वसंख्य, प्रेषीद् यशः स्वं भुवनत्रयेऽपि ॥. जयसिंहदेवः
बमार भूभारमथो जयश्री-निकेतनं श्रीजयसिंहदेवः । भाले रराज प्रतिराजकस्य, राज्यप्रतिष्ठातिलको यदङ्कः ॥
यत्र क्षितिं रक्षति काङ्क्षति स्म, धारा न धाराधरधोरणीनाम् । — न वैरिदृग्वारिनदीकदम्बै-नंदीनदीमातृक एव लोकः ॥
उद्दामदानप्रसरस्य यस्य, लसयशोदुग्धपयोधिमध्ये । * कल्पद्रु-चिन्तामणि-कामधेनु-यशोभिरासाद्यत मौक्तिकत्वम् ।। १ -कथिते ॥ २ ख-महीन्द्र ॥ ३ ख-ग-मूर्द्धसि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org