________________
शिवी
श्रीमदरिसिंहविरचित तथाऽस्य तेजोभिररातिजाति-रवाप तापव्यसनं वनान्ते । यथा हिमाम्भःकणसङ्गमङ्गे, दवस्फुलिङ्गेषु लगत्सु मेने ॥ सुव्यक्तभक्तिः प्रतिसोमवारं, यः सोमनाथं प्रणिपत्य वीरः । तद्भालनेत्रानलचन्द्रभाभि-बभार तेजश्च यशश्च पुष्टम् ॥ । सम्पूर्णशक्तित्रयसम्भवा यः, शम्भुवयर्देिवगृहच्छलेन । कीर्तिस्त्रिधा मूर्त्तिमतीः पताका-हस्तै टन्तीर्घटयाञ्चकार ॥ विजित्य यः संयति कन्यकुब्ज-महीभुजो बारपदण्डनाथम् । जहार हस्तिप्रकरं कराग्र-सूत्कारसंदीपितपौरुषाग्निम् ॥ न भूभृतः केऽपि यदग्रभागे, भेजुर्गुरुत्वं किल साऽपि मग्ना । अदृश्यतां यत्तरवारिवारि-निधौ दधौ कच्छपलक्षसेना ॥ स्वर्ग जिगीषुश्चरणामलग्न-मग्निं विधूय प्रबलप्रतापः । महो महीयानसहिष्णुरन्यद् , बिभेद भानोरपि मण्डलं यः ।।
चामुण्डराजः
क्ष्माखण्डमाखण्डलचण्डशक्ति-चामुण्डराजः प्रशशास तस्मात् । द्विषां मुखे क्रष्टुमसूनिवान्तः, कृतान्तबाहुर्यदसिर्विवेश ॥ अजस्रमौर्वनपादपानां, यस्यारिनारीभिरकारि सेकः । सान्द्रच्छदच्छायतया महान्त-स्ताभ्योऽपि ते प्रत्युपकुर्वते स्म ।
बल्लभराजः
तस्माद् भुजङ्गेन्द्रभुजो बभूव, भूवल्लभो वल्लभराजदेवः। यत्कीर्त्तिदासीकृतकौमुदीन्दु-मुखीमुखेन्दौ विशदोऽयमङ्कः । अटनटव्यां यदरातिवंगों, दरातिरेकोज्झितराजलोकः । रीणोऽप्यतिक्रम्य पराक्रमेण, हरीन् दरीमन्दिरयाञ्चकार ॥ जटालमौलिर्मंगचर्मवासा, निःस्वः फलाशी वनमध्यवासी । अध्यायदुग्रं हृदि य तपस्वी, सदाऽपि रूपस्थमरातिभूपः । कचिन्न भङ्गोऽस्य भविष्यतीति, भाले लिपि मालवभूमिभर्तुः । आरुह्य चूडामणिबिम्बदम्भा-ल्लुलोप कोपी यदसिर्जलाढ्यः । ऊर्वस्थितारातिंचमूसमूह-प्रच्छादनोच्छङ्खलसैन्यरेणुः ।
यो धैर्यधुर्यो जगति द्वितीयां, दधौ जगज्झम्पन इत्यभिख्याम् ।। १ क-ब-रको ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org