SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । सुकृतसंकीर्तनमहाकाव्यम् । आहड: आसीदथ प्रबलशत्रुयशःशशाङ्क-श्रीराहुराहड इति क्षितिजीवितेशः । . निलोठितोऽद्भुतयदीयकलाकलापै-मग्नः शशी किल तदीययशःसमुद्रे ॥ ३७ यत्कीर्तिमेव धवलामवलोक्य लोके, लोकोऽयमन्चहममन्यत पूर्णमासीम् । एतां पुनः सततमात्मनि चन्द्रचार, पश्यन् कुहूतिथिवितर्कमवापदर्कः ॥ ३८ भूभटः श्रीभूभटो रिपुभटोच्चयभेदरक्त-प्रोल्लासपल्लवितखड्गलतस्ततोऽभूत् । दिक्कुम्भिकुम्भमिषदिग्वनिताकुचाग्र-क्रीडाविशृङ्खलयशा जगतीभुजङ्गः ॥ ३९ दानच्छटासुरभिशीतलदिक्करेणु-लीलाचलश्रवणतालमरुत्तरङ्गैः । यत्कीर्तिमन्वहमिलापविलासखिन्ना, दिग्योषितो जलधिसीमनि वीजयन्ति ॥ ४० हरहसितसितानि तानि तन्व-न्नतनुतमानि जगत्रयीयशांसि । चिरमयमवनि शशास भास्व-त्तरतरवारिनिवारितारिवर्गः ।। किश्चदीर्घायुभवतादिति द्विजवरैर्ब्रह्मायुरित्यन्वहं, बन्दीन्द्ररजरामरेति च कुलस्त्रीभिस्त्वमाशास्यसे । श्रीमन्त्रीश्वर वस्तुपाल ! किमपि ब्रूमस्तु विस्तारिणी, कीर्तिनृत्यति यावदेव दिवि ते तावद् भवान् नन्दतात् ॥ उद्भ्रान्तैः सहसा पिनाकचलने क्षीरार्णवोल्लङ्घना-जङ्घालैः खरदूषणप्रशमनप्रारम्भसंरम्भितैः । 'उच्चै रावणनाशभासुरतरैरेभिर्यशोभिर्बभौ, श्रीसोमान्वयजोऽयमर्ककुलजक्षोणीधरस्पर्द्धया ॥ २ जैन किलैनं जगदुः शिवेऽपि, श्रीवस्तुपालः सचिवस्तु भक्तः । शङ्काद् गृहीतैः शुचिकीर्तिनीरे-रसिस्नपद् योऽम्बरमूर्तिमीशम् ॥ सदा प्रसादोन्मुखवस्तुपाल-दृक्पातपीयूषरसानुकारम् । अमुं प्रबन्धं प्रतिवादिदन्ति-सिंहोऽऽरिसिंहो रचयाञ्चकार ॥ प्रतिसर्ग प्रबन्धेऽस्मि-नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः ॥ ५ ॥ इति श्रीसुकृतसङ्कीर्तननाम्नि महाकाव्ये चापोत्कटान्वयवर्णनो' नाम प्रथमः सर्गः ॥१॥ मूलराजः पदेऽथ तस्याजनि भागिनेयः, चौलक्यवंशार्णवपूर्णचन्द्रः । " श्रीमूलराजः प्रतिकूलराज-समूलनिर्मूलनबद्धमूलः ।। १क"निभानि भानि' इति पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy