SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २ ___श्रीमदरिसिंहविरचितं [हितीयं सत्यभ्रमेण कृतकानि गृहेषु हत्वा, हन्तव्यरूपकशतानि विशीर्णदन्तः । सत्यान्यपि प्रतिभयेन न तानि हन्ति, सम्प्राप्तधर्म इव यत्र बिडालकोऽपि ॥ २५ यद्दानिदानमुदितेन वनीपकेन, लभ्यः प्रभूतसुकृतैः कथमप्यवाप्तः । छाया-विभूषण-पयोऽर्पणहेतुरेव, देवद्रु-रत्न-सुरभीविभवोऽपि भेजे ॥ २६ योगराजः तत्रावनीविभुरभूद् वनराजराज्य-राजीवभानुररिवर्गवनीकृशानुः । श्रीयोगराज इति यस्य रराज पाणि-पद्मेऽब्धिपक्षसुभगा भ्रमरीव भूमिः ॥ २७ यस्यासिधेनुफलके नवनागवल्लि-पत्त्रोपमे मुखमुपेयुषि भूभुजङ्गैः । सद्यस्करक्तरसनैरभिवीरशय्या-माश्लिष्यते स्म जगती नवमोहनेन ॥ २८ रत्नादित्यः भारं भुवो भुजभरेण बभार रत्ना-दित्यस्ततः क्षितिपमण्डलमौलिरत्नम् । चण्डासिदण्डदलितोरुतरावनीभृ-दंशालिविस्फुरितमौक्तिककल्पकीर्तिः ॥ २९ आदेशपत्रमिव यत्तरवारिदण्ड, वीक्ष्यैव दण्डधरचण्डधराधिपस्य । चक्रे प्रयाणकमरातिनरेन्द्रवर्गः, स्वर्ग प्रति त्वरितमद्भुतभीतिभावात् ॥ ३० वैरिसिंहः दुर्वारवारणघटोत्कटवैरिसिंहः, श्री वैरिसिंह इति भूदयितस्ततोऽभूत् । यत्कीर्तिकान्तिविशदेषु जगत्सु पाणि-स्पर्शेन चन्द्रमसमाकलयन्ति ताराः ॥ ३१ प्रत्यर्थिपार्थिवगगः समराङ्गणेषु, ग्रीष्मातिभीष्मतरणिधुतिभारतुल्यैः । तप्तो महोभिरिव यस्य कृपागवल्लि-धारागृहव्यतिकरव्यसनी बभूव ॥ ३२ क्षेमराजः श्रीक्षेमराजनृपतिर्वसुधां सुधांशु-ज्योत्स्नासमुज्ज्वलयशाः प्रशशास तस्मात् । यस्यासिवल्लिरिभकुम्भविभेदलग्न-मुक्ताफलैः कुसुमिता फलिता जयेन ॥ ३३ धूमीभवद्यदसिवल्लिरतीवतीत्रः, कोपानलः किमपि यस्य हृदि प्रदीतः ।। प्रत्यर्थिपार्थिवचमूरमणीसमूह-बाष्पाम्बुभिर्भृशमयं शमयाम्बभूवे ॥ चामुण्डराजा विश्वप्रभुः कुतुककन्दुकितारिमुण्ड-चामुण्डराज इति राजयति स्म तस्मात् । पूरे प्रसर्पति यदीययशस्तटिन्या, दूरादमजदुडुपः सह तारकौघैः ॥ ३५ निर्यन् पयोमयपयोधिजलाद् घनान्ते, वीक्ष्याभितो जगति यस्य यशःप्रकाशम् । . अद्यापि नापतति पारमिति प्रसर्पन् , लोकान्तशैलशिखरैः स्खलितो मुरारिः ॥ ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy