SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] .. सुकृतसंकीर्तनमहाकाव्यम् । यस्मिन् सदैव निकृतानि निकेतनाग्र-जाग्रन्मणिद्युतिभरैर्नितमा तमांसि । । आरामकालिममिषेण बहिःस्थितानि, तानि प्रसर्पदरघट्टरवै रटन्ति ॥ ११ जाड्यं जनेषु रजनीजनितं विभिन्द-नुद्दीपयन्नपि दिवाकरकान्तचुल्लीः । जालान्तरागतकरस्तरणिर्द्विधाऽपि, यस्मिन्नभूदनुगृहं ननु सूपकारः ॥ यस्मिन् विलाससदनेषु विलासवत्यः, पत्युः करेऽपहृतवत्यधरोत्तरीयम् । रत्नप्रदीपविफलीकृतफूत्कृतस्त-नेत्रे निमील्य सुखतो दधतेऽन्धकारम् ॥ पर्वक्षणे न खलु निश्चिनुते दिनेषु, सूर्य सुवर्णसुरसद्मकिरीटकुम्भैः । यत्रोन्नतालयशिरःपुरयोषिदास्य-नैव क्षिपापतिमपि क्षणदासु राहुः ॥ १४ सङ्कोचिताम्बुजकुलोऽपि हतार्ककान्त-क्रीडोऽपि पीडितरथाङ्गकुटुम्बकोऽपि । प्रातः प्रयाति विधुरुज्ज्वल एव यत्र, सौधावनिस्खलितधामनि धामनाथे ॥ १५ रुद्धेऽपि यत्र मरुदध्वनि वारिवाहै-लोकः सदा नियमभानुविलोकभोजी । पूर्वाद्रिमौलिगतमेव गृहाधिरोहा-दकं विलोक्य लगति व्यवसायवीथ्याम् ॥ १६ यत्र प्रतिक्षणविवृद्धरसातिरेक-निष्कम्पदम्पतिकदम्बककैतवेन । रत्या सहाजनि निकाममनेकमूर्ति-रेकाङ्गमोहनरसैः स्मृतिभूरतृप्तः ॥ १७ यत्रोच्चसौधभुवि सव्यकारात्तपिण्डविश्रम्भिणां गगनसिन्धुजलद्विपानाम् ।। कुम्भान् विभूषयति भीरुगणः स्वभाल-सिन्दूरधूलिभिरसव्यकरोद्धृताभिः ॥ १८ यस्मिन्नुपर्युपरि गन्तुमशक्नुवन्तो, दूरेण सूरतुरगाः परितः स्फुरन्तः । उच्चैर्विशालमणिसालगतस्वबिम्ब-स्पर्द्धाप्लुतैर्दिनमिति परिमाणयन्ति ॥ १९ चेद् योग्यताऽस्ति परिखां पिब मे त्वमेहि, विन्ध्योऽप्युदञ्चतु मयाऽपि हतोऽर्कमार्गः । योति केतुपटकिङ्कणिकारवैः खे, वप्रो वदत्युदधिपायिनमप्यगस्तिम् ॥ २० मन्दाकिनी वियति तुङ्गविशालसाल-रोधद्विधाप्रसृमरा परितः स्फुरन्ती। शङ्के सुराधिपतिनिग्रहविग्रहाय, यत्रान्तरालपरिखाश्रियमादधाति ॥ २१ अग्नानि भूमिधरभासुरसालभित्ति-भागेषु मारविवराण्यभितोऽपि यत्र । व्योमापगाजलगजप्रतिमानसीम-निर्मग्नदन्तहतिलक्ष्मनिभानि भान्ति ॥ २२ यद्रत्नवेश्मपरिमार्जनिकारजोभि-र्दूरोज्झितैरुपवनावनिदोषभीत्या । अभ्रंलिहो जगति यः पटुरत्नगर्भः, कूटः किलाजनि जनेषु सुरत्नसानुः ॥ २३ यस्मिन्- जनाय मणिवेश्मविभाविभिन्न-ध्वान्तोत्करेऽपि कथयन्ति विभातभावम् । लीलासरोवरसरोरुहिणीविकाश-सौरभ्यलुभ्यदलिनीकलकूजितानि ।। २४ १.ग-क्षपाप ॥ २ग-भग्नानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy