SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । ॥१॥ ॥२॥ ॥३॥ ॥४ ॥ वनराजः श्रीवेश्मविस्मयमयप्रबलप्रतापश्चापोत्कटान्वयवनैकहरिनरेन्द्रः । आसीदसीमचरितः परितप्तशत्रुभालार्पिताघिनलिनो वनराजदेवः । यत्खड्गखण्डितविरोधिशिरोऽधिरक्तस्रोतस्विनीभिरुदधिविदधे सरागः । येनाऽधुनाऽप्यरुणतां भजतस्तदङ्गसम्पर्कतोऽर्क-शशिनावुदयक्षणेषु निर्गत्य कोशकुहरादसिदन्दशूकः, श्यामो यथागतमगात् त्वरितं यदीयः । एतेषु मास्म विशदेष परैरितीव, रुद्धेषु वक्त्रविवरेषु कराङ्गुलीभिः खट्वाङ्गसङ्गतकरस्तरवारिलग्नकृत्तारिमुण्डमिषतः समराङ्गणे यः । भालाधिरोपितहुताशनचण्डचक्षुराभादिभासुरविरोधिविभासुरश्री: तेने कृतान्तसमतां रसनासनाभि-धारो रो यदसिरञ्जनमञ्जुलश्रीः । अह्नाय यस्य युधि दर्शनसंज्ञयैव, भिन्दन्नरीनधित. किङ्करतां कृतान्तः स्तब्धप्रकम्पितविलीनविर्वर्णगात्रैः, खिन्नैर्विभङ्गुररवस्फुरदश्रुलेशम् । उन्मुच्य पौरुषमवाप्य च भीरुभावं, यः सेव्यते रिपुभिरुत्पुलकैः प्रसन्नः आकर्ण्य तूर्णमुपकर्णयितुं च यस्य, कीर्ति मुहुर्भुजगभीरुगणेन गीताम् । चक्षुःश्रवा रसवशेन दृशां निमेषोन्मेषक्रियामनिमिषोऽपि चकार शेषः । वक्रीकृते धनुषि मौक्तिकताडपत्रज्योत्स्नाम्बुभारभृति पल्वलतां दधाने । . यस्याऽऽननं विकचवारिजकल्पमन्तभैजे विहाय परराजकरान् जयश्रीः श्रीमत् पुरं भुवि पुरन्दरपत्तनाभं, तेनाऽऽदधेऽणहिलपाटकनामधेयम् । स्त्रीणां मुखे स्मरतपस्विवनेऽजनीन्दुपद्मश्रियोरसुहृदोरपि यत्र योगः अन्तर्वसद्धनजनाद्भुतभारतो भूर्मा भ्रश्यतादिति भृशं वनराजदेवः। . पञ्चासराहनवपाश्वजिनेशवेश्मव्याजादिह क्षितिधर नवमाततान ॥६॥ ॥ ८ ॥ ॥९ ॥ ॥ १०॥ १ग-विशीर्ण ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy