________________
।।
वस्तुपाल - तेजःपालयोः मन्त्रमुद्रार्पणम्
कीर्तिकौमुदीमहाकाव्यम् |
भूमिभर्तुरथ कर्तुमिच्छतस्तस्य सत्पुरुषसङ्ग्रहं श्रिये । एकदा हृदयमागताविमौ दीप्तशीतकरणाविवाम्बरम् ॥ तद्गुणान् निपुणथा मनीषिणामग्रणीषिणया विमृश्य सः । आजुहाव च समागतौ च तौ, कार्यसिद्धिरविलम्बिनी सताम् ॥ तत्र तौ ददृशतुः शतक्रतुप्रायमायतभुजं महीभुजम् । सानुजं च सचिवं स दृष्टवानर्थजुष्टमिव धर्ममग्रतः ॥ तावुपायनमुपायपण्डितौ, मण्डितौजसिकपद्धतेः पुरः । उद्गणय्य चरणद्वयं मुदा, तस्य वीरतरणेः प्रणेमतुः ॥ तेन वेनतनयानुकारिणा, कर्तुमात्मकरणाधिकारिणौ । सप्रसादवदनेन सादरं, सोदरौ समुपवेशिताविमौ ॥ तस्य निर्दलितभूरिभूभृतः, स्वर्पतिप्रतिकृतेः कृतासनौ । अश्वराजतनुजौ रराजतुस्तौ सुरासुरगुरूपमौ पुरः ॥ एतयोर्विनयनम्रमस्तकन्यस्त सम्पुटितपाणिपद्मयोः । निर्ममे समदशत्रुदन्तिनामङ्कुशः स कुशलानुयोजनम् ॥ नीलनीरदरवानुवादिना, नादयन्नथ दिशः स्वरेण सः । तौ पुनश्चरितचातकव्रतौ, वक्तुमारभत मारसन्निभः ॥
आकृतिर्गुणसमृद्धिशंसिनी, नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसङ्क्रमः, संयमश्च युवयोर्वयोऽधिकः ॥ श्लाध्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः, स्वामिनां च पुरुषैर्भवादृशैः ॥ यौवनेऽपि मदनान विक्रिया, नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं केन वामिति नवाकृतिः कृता ? ॥ आवयोस्तु पितृ-पुत्रयोर्महानाहितः क्षितिभरः पुरद्रुहा | तद् युवां सचिवपुङ्गवाह, योक्तुमत्र युगपत् समुत्सहे ॥ विद्युदञ्चलचलाचलां श्रियं सन्निवेश्य सचिवेषु साधुषु । सम्प्रहारभरसम्भृतश्रमाः, शेरते सुखममी क्षमाभुजः ॥ येन केन च सुधर्मकर्मणा, भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥ मत्पितुर्भुजयुगेन संयुगादाहृतां जितयुगश्रिया श्रियम् । अक्षरक्षणंविचक्ष युवां नित्यमेध्यतमिद्धया धिया ॥
Jain Education International
१५
For Private & Personal Use Only
५१
५२
· ५३
५४
५५
५६
५७
५८.
५९
६०
६१
६२
६३
६५
१ उखु प्र० । २ स्वःष्पति वा० । स्वःपति मु० ॥ ३ 'वयं, यो मु० ॥ ४ चलि वा० मु० ॥ ५ केनचन धर्म प्र० ।। ६ व्यवहार प्र० वि० ॥
६४
www.jainelibrary.org