SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ * * * * * * * س س سر __ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं [ तृतीयः सततं सचिवश्रेणिमाणिक्यस्याङ्गसङ्गिनी । कान्ता कुमारदेवीति, तस्य कान्तिरिवाभवत् ॥ २२ स्वाभाविकेन शौचेन, मान्याः सुमनसाभपि । प्रवाहा इव जाह्नव्यास्तया सूताः सुतास्त्रयः ॥ २३ मुख्यः श्रीमल्लदेवाख्यो, वस्तुपालाढयस्ततः । तेजःपालाभिधः पश्चात् , त्रयी भाति त्रयीव सा ॥ २४ पुरुषाणामिमास्तेषां, परेषामिव मूर्तयः । त्रिधा विभिद्यमाना अप्येकैव परमार्थतः ॥ स्वयं शुद्धेषु यत् तेषु, गुरुणा शौचशिक्षणम् । घनसारपरागेग, मार्जनं मौक्तिकेंषु तत् ॥ तेल्लब्धं मल्लदेवेन, यशः शुभ्रं विभाव्य यत् । शिष्टैनं विष्टपे दृष्टं, कैरवं कैरवज्ञया ? ॥ इयती मल्लदेवस्य, कौस्तुभेन विभिन्नता । जिनो हृदि यदेतस्य, जिनस्य त्वपरः सदा ॥ वस्तुत्वं वस्तुपालस्य, सैव वेत्ति सरस्वती । तदीयवदनाम्भोजे, या वसत्यनुवासरम् ।। स्थितं पुरुषयोर्मध्ये, पूर्वजानुजयोस्तयोः । मन्यते मध्यमं यः स्वमुत्तमं तं जनः पुनः ॥ किमस्तु वस्तुपालस्य, मन्त्रीन्दोः साम्यमिन्दुना ? । यद् दत्ते वसुधामेष, सुधामेवापरः पुनः ॥ ३१ वृद्धिं न्यग्रोधशाखीव, स प्राप्नोति यथा यथा । क्षमालङ्करणः केषां, नाश्रयः स्यात् तथा तथा ? ॥.३२ षड्भिरेव गुणेर्येन काऽपि कीर्तिपटी कृता । वसुन्धरा धराऽम्भोधिसहिता पिहिता यया ॥ ३३ मन्ये मनसि साधूनां, यो वसत्यनुवासरम् । यदनुक्तोऽपि जानीते, विधत्ते च तदीप्सितम् ॥ ३४ अहङ्करोति नात्मानं, त्वङ्करोति न सद्गुरून् । यः पुनः प्रधनारम्भे, हुङ्करोति विरोधिनः । दयिता ललितादेवी, यस्य सर्वाङ्गहारिणी । अर्धाङ्गहारिणी पत्युः, पार्वती हसतीव या ॥ तस्मादमात्यजीमूतात् , सुक्षेत्रेऽस्मिन् सुताङ्करः । जयसिंहाह्वयः सोऽयं, बालोऽपि फलितः सताम् ॥ पूर्वे सर्वेऽपि तार्यन्ते, निस्तार्यन्ते तथाऽर्थिनः । एतेन यस्य पोतेन, प्रतार्यन्ते न तु प्रजाः ॥ ३८ तेजःपालः पुनस्तेषु, सोदरेषु लघुः किल । निजप्रभुप्रसादेन, गुरुणाऽपि न उच्यते ॥ ३९ छन्दःशास्त्रे श्रुताऽस्माभिर्लघुताऽपि कचिद् गुरोः । तस्मिन् बन्धुजने दृष्टा गुरुताऽस्य लघोरपि ॥ ४० अश्वराजात्मजावेतौ, नासत्यावमृतौषधैः । सम्प्रति प्रतिकुर्वाते, सर्वमप्यातुरं जगत् ॥ ___ अमी सुमनसस्तेन, स्पर्धन्तामुद्धताः कथम् ? । सोऽपि सद्बुद्धिना येन, जितः सुमनसां गुरुः ॥ ४२ अपूर्व तस्य वैदुष्यं, यद् दिक्पालैः स्वभूभुजा । समानैर्दशभिः सार्धं, मेने सन्ध्यक्षराणि यः ॥ ४३ शुभस्वभावमालोके, लोकेऽस्मिन्नेकमेव तम् । यदुक्तं तत् करोत्येव, यत् कृतं तन्न वक्ति यः ॥ - ४४ उपकेंत्य कृती पुंसां, वित्ते तेषां न केवलम् । अपि यः स्तुतिलञ्चायां, सचिवेन्दुर्गतस्पृहः ॥ ४५ उपकर्ता सतामन्यैरुपकारयिता च यः । हरते हि मरुत् तापं, हारयत्यपि वारिदैः ॥ वात्ययेवोन्नतिं नीतः, श्रिया तृणसमः पुमान् । क्षमां त्यजति न त्वेष, शिखरीवोदयन्नपि ॥ ४७ अपूर्व मन्त्रिमाणिक्य, चाणक्यमिह मन्महे । वसुधावलये येन, सदानन्दोदयः कृतः ॥ यद्यप्यनुपमा नाम, प्रेयसी तस्य मन्त्रिणः । मूर्त्या तथापि मन्येऽहमेनां मेंनाङ्गजामिव ।। ४९ लावण्यसिंहनामानं, सा लावण्यवतंर्सिंता । तनयं जनयामास, विनयावर्जितप्रजम् ॥ ५० १ शौर्येण, मा मु० ॥ २ यल्ल मु० ॥ ३ तत् मु० ॥ ४ यत् मु० ॥ ५ कृत्ये मु० ॥६ 'सचिवो दुर्ग मु० ॥ ७ चाणिक्य वा० ॥ ८ 'सिनम् मु० ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy