SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । . Marw .. वस्तुपालवंशवर्णनम् रसालङ्करणे तस्मिन्नालवालानुकारिणि । प्रांशुः प्राग्वाटवंशोऽभूत् , पुरे गूर्जरभूभुजाम् ॥ १ त्वचि साराः परे वंशाः, सदा पत्राणि बिभ्रति । क्रियासारैश्च वंशोऽयं, धत्ते पात्रपरम्पराम् ॥ २ नररत्नैर्यदुत्पत्नैरुताद्भुतकान्तिभिः । विभूषिता विशेषेण, जगतीव सरस्वती ॥ ____ मन्त्रिमण्डलमार्तण्डश्चण्डपः प्रथमः पुमान् । कुले तस्मिन्नुदेति स्म, तैमसामवसानकृत् ।। चाणक्यादिव चातुर्य, गिरमाङ्गिरसादिव । अम्भोधेरिव गाम्भीर्थ, यः शुभैकाग्रहोऽग्रहीत् ॥ न च्छिदं क्षुद्रमप्यत्र, मन्त्रिरत्ने निवेशितम् । धात्रा केन प्रकारेग, सोऽनुस्यूतगुणः कृतः ? ॥ मानी नामन्यत श्लाघ्या, यः श्रियं सरसीरुहाम् । यैर्मनागपि न म्लानमिनपादावधीरितैः ॥ तश्चण्डप्रसादोऽभूद , गङ्गाडिण्डीरपाण्डुभिः । यशोभिः ककुभां येन, चक्रे श्रीखण्डमण्डनम् ॥ ८ कदाचिदपि न त्यक्तः, पाणिपद्मगृहीतया । गेहिन्येव वदान्योऽयं, नृपव्यापारमुद्रया ॥ । मृदुर्वागी मतिस्तीक्ष्णा, साधुः श्रीः कीर्तिरित्वरी । वीतरागं मनो यस्य, स्फीतरागं करद्वयम् ॥ यः पराभूतकर्पूरैः, कीर्तिपूरैर्निरन्तरम् । चिरं विरचयामास, राकामाकालिकीमिह ॥ सोमः समुद्रतस्तस्मादुजगाम मनोरमः । सवित्री जातमात्रेण, येन द्यौरिव दिद्युते ॥ . १२ अपूर्वः कोऽपि सोमोऽयं, कलङ्कविकलाकृतिः । न हि मारेपुरस्कार, चक्रे भावं च नो भवे ॥ १३ निदधे गुणरत्नानां, यत्र कोशः स्वयम्भुवा । तत्र श्रीसिद्धराजोऽपि, रत्नकोशं न्यवीविशत् ॥ १४ स्वं मेने येन सोमेन, पूर्णेनाभ्यर्णवर्तिना । गृहीतानन्तभोगः "श्रीसिद्धेशोऽधिकमीश्वरात् ॥ सावित्रं बिभ्रता तेजः, सीतां च सहचारिणीम् । काकुत्स्थेनेव येनापि, न दीनातिक्रमः कृतः ॥ १६ अमेयमहिमा श्रीमानश्वराजस्ततोऽभवत् । येन दानाईहस्तेन, हस्तिराजोऽप्यजीयत ॥ तेस्मानिरन्तरत्यागस्थगिताश्रितदुःस्थितैः । "निजैरेवेन्द्रियैर्लब्धा, कामना न मनागपि ॥ १८ आनीतं न्यायतो वित्तं, व्ययितं धर्मकर्मसु । यशस्तु जर्गति स्तुत्य, केवलं यस्य तिष्ठति ।। १९ प्राकृतां रेणुकाबाधां, स्मरन्ननुशयादिव । मातुर्विशेषतश्चक्रे, भक्तिं यः पुरुषोत्तमः ॥ जनन्या जठरे मासानध्युवास दशैव यः । हृदयाम्भोरुहे तस्य, यावजीवमियं पुनः ॥ 1 पुनः ।। १रस्थव प्र. वा० ॥ २ इच्छा तेजश्च प्र० टि० ॥ ३ तमसा दुष्टानाम् प्र० टि० ॥४ अन्त प्र० टि० ॥ ५ चाणिक्या वा० ॥ ६ ने न्यवेशयत् । धात्रा(ता) के मु० ॥ ७ तथापि प्र० टि० ॥ ८ इनः-सूर्यः, पाद-किरणाः, अवधीरित-अवगणित, अनस्वामीपादैः प्र० टि० ॥ ९ अकालभवाम् प्र. टि०.१० मरणं कामश्च प्र० टि० ॥ ११ भवः-संसारः शिवश्च प्र० टि० ॥ १२ श्रीसमिद्धः सोऽधिक वा० । श्रीसमिद्धोऽधिक मु० ॥ १३ सवित्र्या इदं सवितुरिदम् प्र० टि० ॥ १४ यस्मा प्र० ॥ १५ निजैरिवे मु०॥ १६ गत स्तु प्र. ॥ १७ चक्रवर्ती प्र० टि० ॥ १८ यस्य प्र. ॥ P २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy