SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १२ गुर्जरेश्वरपुरोहितश्री सोमेश्वर देवविरचितं [ द्वितीयः व्याहृत्य कृत्यमिति सा सहसा च कण्ठपीठे निवेश्य विशदामिह पुष्पमालाम् । कुत्रापि तत्रभवती सह निद्रया मे, याताऽथ यूयमिह जल्पत ः किमेतत् ॥ इत्थं वदन्नथ हरिप्रतिहस्तकोऽसौ सौवस्तिकेन जगदे जगदेकवीरः । स्वप्नोऽयमर्थमकैदर्थनया ददानो, व्याख्यानमिच्छति भवानिव नैव देव ! | राजन्य ! धन्यतममन्यमहं न मन्ये, ग्रस्तौरिवीरभुजवैभवतो भवत्तः । या न स्पृशत्युपनतानपरान् कदापि, यत् त्वामुपेन्द्रमिव सा वृणुते स्वयं श्रीः ॥ युष्मादृशामसदृशान्वयसम्भवानां न श्लाघ्यते जगति केन कुलार्गलाऽसौ ? । अग्रेसरीभवति दुश्चरितप्रवृत्तौ या सङ्गव्यतिकरापसृतौ तु पश्चात् ॥ उद्गच्छतस्तव रवेरिव सम्पराये, छायेव सम्मुखमुपैति न शत्रुसेना । दीपाङ्कुरा इव दशान्तमुपेयिवांसस्तेजो निजं मुकुलयन्ति च मण्डलीकाः ॥ आनीतवानसि गुणैर्गुरुभिः स्वकीयैर्बद्ध्वा नृपश्रियमिमां सुभटोपभोग्याम् । सन्मन्त्रिभिस्तदनुरञ्जय मञ्जुमूर्ते !, व्यावर्तते नहि यथा त्वदेसौ स्थिताऽसौ || दृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावलीं जलधयो जनयन्ति किन्तु, संस्कारमत्र मणिकारगणः करोति ॥ पित्रा विचित्रचरितानुकृताऽच्युतेन तेनाथ वीरधवलो बलवान् नियुक्तः । युक्तश्व भूभरसमुद्धरणे विधात्रा, चिन्तां चकार सचिवेषु शुचिक्रियेषु ॥ अथ दशरथकल्पस्त्यक्ततल्पः प्रभाते, स च नृपतिरपत्यं तच्च रामोपमेयम् । स च परिचरणीयो गूर्जराणां विशिष्ट प्रतिकृतिरुदतिष्ठत् कर्म साध्यं विधातुम् ॥ ॥ इति गुर्जरेश्वरपुरोहितश्री सोमेश्वरदेवविरचिते कीर्तिकौमुदीनाम्नि महाकाव्ये नरेन्द्रवंशवर्णनो नाम द्वितीयः सर्गः ॥ २ ॥ Jain Education International १०७ For Private & Personal Use Only १०८ १०९ ११० १११ ११२ ११३ ११४ १ पूज्या प्र० टि० ॥ २ ना वा० ॥ ३ अकष्टेन प्र० टि० ॥ ४ र्थतया मु० ॥ ५ °रिवैरिभुजवैभवतो भवन्तः वा० ॥ ६ यदापि वा० ॥ ७ सन्मुख वा० ॥ ८ तथा प्र०ट० ॥ ९ 'दवस्थि' मु० ॥। १० वर्द्धयति प्र० टि० ॥ ११५ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy