SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सः। ] कीर्तिकौमुदीमहाकाव्यम् । दिवं गतास्ते बत ! गुर्जरेन्द्रास्ते कुञ्जरेन्द्राश्च हेताः सपत्नैः । येषां क्षमाभृद्दलनक्षमेषु, भुजेषु दन्तेषु च मे निवासः ॥ यो वर्तते सम्प्रति चक्रवर्तिपदेऽत्र बालः स बलान्यरीणाम् । क्षमः समग्राणि न निग्रहीतुं, दीपस्तमांमीव तटस्थितानि ॥ ये मन्त्रिणो येऽत्र च मण्डलीकास्तेषु क्रमो नास्ति पराक्रमोऽस्ति । प्रतिक्रिया काऽस्तु ततोऽस्ति येषां कामो मयि स्वामिपरिग्रहेऽपि ॥ आस्ते सहस्तः स पुमान् न कोऽपि, यो मामिमामुद्धरते निमग्नाम् । ग्रहीतुमेते हि सतां विभूतिं शतं वितन्वन्ति नराः कराणाम् ॥ सौवस्तिको नास्ति स आमशर्मा, वर्मायितं येन सुधर्मा मे । गतः सञ्जाल तथ मन्त्रैर्यः क्षत्रसर्पानकरोद् विदर्पान् ॥ न राष्ट्रकूटान्वयकैटभारिः, प्रतापमल्लोऽस्ति मृधैकमल्लः । गन्धोऽपि मत्तारिमतङ्गजानां गन्धद्विपेनेव न येन सेहे ॥ विना जगदेव मिमामवस्थां नीता निजैरेव परैरिवाहम् | यत्र स्थिते वेत्रिणि शङ्कितैर्न, द्विष्टैः प्रविष्टं पुरि गूर्जराणाम् || अवाप्तवेदाम्बुधिरोधसा च पुरोधसा तेन कुमारनाम्ना | विनाऽद्यै चैद्यक्षितिपाललक्ष्मीं, को मे करिष्यत्यरः सपत्नीम् ॥ या मूलराजान्वयजातराज तेजोभिरासीद् विरमत्तमस्का । निशा साम्प्रतमुद्वसायां, तस्यां न दीपोऽपि नरेन्द्रपुर्याम् || निरन्तरं सञ्चरतां गजानां, या डिण्डिमैरुडुमरा ध्वनद्भिः । एकाकिनी रात्रिषु गूर्जराणां, सा पूत्करोतीव शिवारुतैः पूः ॥ क्रीडावतीनां नगराङ्गनानां वक्त्रैः सदा यत्र सरोजसत्ता । सरस्तदश्रूणि किरत्यनाथं, वातास्तपाथः कणकैतवेन ॥ मुण्डेव स्खण्डितनिरन्तरवृक्षखण्डा, निष्कुण्डलेव दलितोज्ज्वलवृत्तवप्रा । दूरादपास्तविषया विधवेव दैन्यमभ्येति गूर्जरधराधिपराजधानी ॥ तन्मां खचक्र-परचक्रहृतावशेषां, निःशेषिताखिलसपत्न ! समुद्धरस्व | यस्मादमानवचरित्रपवित्रितेन, सम्भावनाऽत्र भवता भुवनेऽर्जिताऽसौ ॥ एकेन केशिरिपुणा विधृतं यदुच्चैर्भा रेण भङ्गुरमिवासुरभूपतीनाम् । - तेद्वीर ! वीरधवष्ठेन सुतेन भूयः सम्भूय भूवलयमुद्धर सम्प्रति त्वम् ॥ Jain Education International ११ For Private & Personal Use Only ९३ ९४ ९५ ९६ ९७ ९८ ९९ १०० १०१ १०२ १०३ १०४ १०६ १ इताः प्र० वा० ॥ २ तु प्र० वा० || ३ मुञ्जील मु० ॥ ४ राठउड वा० टि० ॥ ५ द्य वैद्य ं वा ॥ ६ रजत मु० ॥ ७ सा फूल्क मु० ॥ ८ तस्मात् स्व मु० ॥ ९ तद्धीर ! वा० ॥ १०५ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy