SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं [तृतीयः इत्युदीर्य भुजवीर्यशालिना, मुद्रिता दशनचन्द्रिकाऽमुना । वस्तुपालवदनारविन्दतः, स्यन्दते स्म मधु वाग्मयं ततः ॥ देव ! सेवकजनः स गण्यते, पुण्यवस्तु गुणवत्सुचाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना, स्वामिना मधुरमेवमुच्यते ॥ . सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता, दक्षता सुभगता च गच्छति ॥ जायते जलदवृन्दवृष्टिभिः, शाखिनां सफलता शनैः शनैः । तुष्यतां क्षितिभृतां नु दृष्टिभिस्तत्क्षणादपि नृणां फलोदयः ।। नास्ति तीर्थमिह पार्थिवात् परं, यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं, सम्पदेति च समीहिता सताम् । जीवनाय मनुजन्मनामिह, भ्राम्यतामथ कदापि स प्रभुः । त्वादृशो भवति भाग्ययोगतो, वेत्ति यः सदसतां यदन्तरम् ।। किन्तु विज्ञपयिताऽस्मि किञ्चन, स्वामिना तदवधार्यतां हृदा । न्यायनिष्ठुरतरा गिरः सतां, श्रोतुमप्यधिकृतिस्तवैव यत् ।। सा गता शुभभयी युगत्रयी, देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता, नापि भूपतिषु यत्र दृश्यते ॥ ते राजानः स्वर्गताश्चक्रिरे यैर्वी रै। रिदमापतीनां प्रबन्धाः । तेऽपि प्राप्तास्तत्र सन्मन्त्रिणो ये, श्लोकांस्तेषां शोधयन्ति स्म शुद्धाः ॥ दृष्टिर्नष्टा भूपतीनां तमोभिस्ते लोभान्धान् साम्प्रतं कुर्वतेऽग्रे। यैर्नीयन्ते वर्त्मना तेन यत्र, भ्रश्यन्त्याशु व्याकुलास्तेऽपि तेऽपि ।। " न सर्वथा कश्चन लोभवर्जितः, करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः, परत्र बाधा न यथाऽत्र वाच्यता ॥ पुरस्कृत्य न्यायं खलजनमनादृत्य सह जानरीन् निर्जित्य श्रीपतिचरितमाश्रित्य च यदि । समुद्धर्तुं धात्रीमभिलषसि तत् सैव शिरसा, धृतो देवादेश: स्फुटमपरथा स्वस्ति भवते ।। सचिववचनमेतच्चेतसा सोत्सवेन, क्षितितलतिलकोऽयं कर्ण्यमाकर्ण्य सम्यक् । अकृत कनकमुद्राकान्तिकिञ्जल्कसान्द्रं, करसरसिजयुग्मं मन्त्रियुग्मस्य तस्य ।। अवनिपतिरनेन भूरिधाम्ना, सचिवयुगेन चिराद् विराजमानः । पतगपतिरिवारिनागनाश, जनयति पक्षयुगेन संयुगे सः ॥ ॥ इति श्रीगूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते कीर्तिकौमुदीनाम्नि महाकाव्ये मन्त्रप्रतिष्ठा नाम तृतीयः सर्गः ॥ १ वाङ्मयं वा० मु० ॥ २ °नां फललता प्र० ॥ ३ रेर्वोरक्ष्मा वा० मु० ॥ ४ 'जितं वा० ॥ ५ धात्रीं समभिलषसि तच्छैष वा० ॥ ६ ऽयं कृत्स्नमा मु० ॥ ७ मन्त्रिस्थापना नाम वा० । मन्त्रिस्थापनो नाम मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy