________________
चतुर्थः सर्गः ।
वस्तुपालस्य मन्त्रित्वावदांताः
श्रीवीरस्य धरोद्धारधुरीणस्योपधारणम् । चक्रतुः सचिवावेतौ पादौ सुरगिरेरिव ॥ ताभ्यां कल्याणरूपाभ्यां मन्त्रिभ्यामधिकाधिकम् । नृपाखण्ड राज्यश्रीः, कुण्डलाभ्यामिव व्यभात् ॥ २ न्यायं निवेशयन्नुय, निर्व्याज:- स्वजनः सताम् । स्तम्भतीर्थं जगाम श्रीवस्तुपालो विलोकितुम् ॥ ३ स्तम्भतीर्थे स्थितस्तीर्थप्रभाव इव मूर्तिमान् । केषां मुमोष नो दोषमीप्सितानि ददौ च यः ॥ तमन्यमिव सश्रीकं, समुद्रमवलोकयन् । ईर्ष्ययेव पयोभङ्गैर्भूभङ्गं विदधेऽम्बुधिः ।। कोऽप्यपूर्वः समुद्रोऽयमपापः पृथिवीतले । यस्मात् प्रसरति स्वादुरसपूरा सरस्वती ॥
४
५
प्रविवेश पुरे तत्र, स पश्चान्मन्त्रिसत्तमः । तस्यागमे तु पौराणां, प्रमोदः प्रथमं हृदि ॥ पटोत्तम्भस्तोरणं च गृहे गृहे । पुरुषे पुरुषे प्रीतिः सम्प्राप्ते तत्र मन्त्रिणि ॥ धान्यैर्धन्यमिव क्षेत्रं, फलैरिव घनं वनम् । सरः पूर्णमिवार्गोभिस्तेनाऽभूच्चारु तत् पुरम् ॥
७
१०
११
. क्रूरै ग्रहैरिवाssक्रम्य, मुक्तमन्यैर्नियोगिभिः । प्रीणात्येष पुरं मन्त्री, नक्षत्रमिव चन्द्रमाः ॥ पुरं रोगैरिव प्रस्तमपरैरधिकारिभिः । द्वैद्य इव तन्त्रज्ञो मन्त्री प्रतिकरोति यः ॥ केनाऽप्यन्येन या चक्रे, सतां पीडाऽधिकारिणाम् । वार्यते वस्तुपालेन सा सम्प्रत्यधिकारिणा ॥ १२ प्रत्यावृत्तिः कृतस्येव, कलेवि गलग्रहः । बलेः पुनरिवोत्थानं, स मेने सुमनः शतैः ॥ 'निशासु नीचसम्भोगसम्भूतधनकामना । सत्यत्र मन्त्रिमाणिक्ये, गाणिक्येनापि तत्यजे ॥ सर्वत्रोच्छ्वसितं सद्भिः, खलानां म्लानमाननैः । निराकृतदुराचारं, व्यापारं तत्र तन्वति ।। सांयात्रिकजनो येन, कुर्वागो हरणं नृणाम् । निषिद्धस्तदभूदेष, धर्मोदाहरणं भुवि ॥ स्पृष्टास्पृष्टनिषेधाय, विधायावधिवेदिकाम् । पुरेऽस्मिन् वारितस्तेन, तक्रविक्रयविप्लवः ॥
Jain Education International
८
For Private & Personal Use Only
१३
१४
१९
२०
धात्रा स्थानेषु भग्नेषु, ताम्यतामाश्रयः सताम् । सद्वंशः सद्गुणश्चायं पटावास इवाभवत् ॥ १८ स्वामिना संप्रसादेन, पाणिर्यद्यपि मुद्रितः । तथाऽप्युन्मुद्रितस्तस्य, वित्तविश्राणनक्षणे ॥ स्निग्धैः सम्भाषणैरेव, यस्य द्रविणवर्षिणः । अर्थिनामुपशाम्यन्ति, दौःस्थ्यनिः श्वासवायवः || स्थानभ्रष्टस्य यः साधोराधारः सारवत्तया । जटाजूट: सुरतः स्रोप्रवाहस्येव शाम्भवः ॥ लोकेऽस्मिन्नवमन्वाने, जाने वैराग्यमागताः । सरस्वत्यास्पदं तीर्थमिव यं शिश्रियुर्गुणाः ॥ महतां वर्त्तमानानां वित्तेनोपकरोति यः । स्वर्गतानां जरत्पूर्तकीर्तनोद्धरणेन तु ॥ प्रासादास्तेन देवानामुद्धृताः कारिताश्च ये । नवत्वमेव विख्यातमसङ्खयेष्वपि तेष्वंभूत् ॥
२१
२२
१५
१६
१७
१ रुप्रिभ्यां मु० ॥ २ व्यधात् मु० ॥ ३ 'जः सुमनः वा० । 'जः सुजनः प्र० ॥ ४ तद् वैद्य प्र० वा० ॥ ५ रिण प्र० मु० || ६ सत्प्रसा मु० ॥ ७ तां विद्यमाना मु० ॥ ८ रत्कीर्तिकी वा० ॥ ९ ते प्र० वा० ॥ ९० येष्व प्र० ॥
की ० ३
२३
२४
www.jainelibrary.org