SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ oc ___ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं [ चतुर्थः यन्यूनं यत्र यन्नष्टं, यस्तत्र तदचीकरत् । उत्पत्तिरुत्तमानां हि, रिक्तपूरणहेतवे ।। अकल्पयदेनल्पानि, देवेभ्यः काननानि यः । हरनेत्राग्नितापस्य, यत्र न स्मरति स्मरः ॥ रम्भासम्भावितैर्यस्य, वनैर्वृषनिषेवितैः । मनोज्ञसुमनोवगैः, स्वर्गसौन्दर्यमाददे ॥ . सङ्ग्रहीतानि हारीत-शुक-चित्रशिखण्डिभिः । धर्मशास्त्रसधर्माणि, यस्योद्यानानि रेजिरे ॥ दर्शयन् सुमनोभावं, श्रीमत्तामतुलामयम् । काननानां स्वबन्धूनां, स्वबन्धूनामिवाऽकरोत् ॥ . सरांसि राजहंसालीशालीन्ययमचीखनत् । तेनैव तुल्यता येषां, स्यादस्ताधतया तया ॥ आददानाः पयःपूरं, यत्कासारेषु कासराः । विराजन्तेतरां पारावारेष्विव पयोधराः ।। अकारयदयं वापीरपापीयःक्रियारतः । सुधाया अपि माधुर्थ, यजलगलहस्तितम् ।। ताः प्रपाः कारितास्तेन, यदीयं पिबतां पयः । तृप्यन्त्यास्यानि पान्थानां, न रूपं पश्यतां दृशः ॥ ३३ भवार्णवतरी ब्रह्मपुरी येनात्र निर्ममे । यस्यां गायन्ति सामानि, नरा नार्यस्तु तद्यशः ॥ स्फुटं वेष्टयता शुभैः, कार्तिकूटः पटैरिव । दशाऽपि ग्राहिता येन, दिशः श्वेताम्बरव्रतम् ॥ ३५ येन पौषधशालास्ताः, कारितास्तारितात्मना । मध्ये श्वेताम्बरैर्यासां, विशुद्धिः सुधया बहिः ॥ ३६ यस्य पौषधशालासु, यतयः संवसन्ति ते । सदा येषामदाराणामात्मभूसम्भवः कुतः ॥ ३७ ज्ञानाख्यं यस्य तच्चक्षुर्वाचांदेवी ददे मुदा । नित्यं येनैष धर्मस्य, गति सूक्ष्मामपीक्षते ॥ ३८ अयं जगति मध्यस्थः, स्पष्टं सृष्टिकृता कृतः । धर्माध्वानस्तदेतस्य, स्थिताः सर्वेऽपि तावति ॥ ३९ नानर्च भक्तिमान् नेमौ, नेमौ शङ्कर-केशवौ । जैनोऽपि यः सवेदानां, दानाम्भ: कुरुते करे ॥ ४० लभन्ते लोकतः पापाः, शापानन्ये नियोगिनः । अधिकारमधिक्कारममात्यः पात्यसौ पुनः ॥ ४१ सिंहनराजस्य गूर्जरदेशोपरि अभियोगः अथ गर्जरराजराज्यलक्ष्मी, रमणीयां चरचक्षुषा निरीक्ष्य । पृतनां द्रुतमादिदेश दूतीमिव तत्सङ्ग्रहणाय दक्षिणेन्द्रः ।। द्रुतसिङ्घनसैन्यसिंहनादप्रसरा गूर्जरराजराजधानी । हरिणीव हरिन्मुखावलोकं, चकितान्तःकरणा मुहुश्चकार ।। गृहमारभते न कोऽपि कर्तुं, कुरुते कोऽपि न सङ्ग्रहं कणानाम् । स्थिरतां कचनापि नैति चेतः, परचक्रागमशङ्कया प्रजानाम् ।। अवधीरितधान्यसञ्चयानां, बहुमानः शकटेषु मानवानाम् । विपदामुदये हि दुर्निवारे, शरणं चक्रभृदेव देहभाजाम् ।। समुपैति यथा यथा समीपं, रिपुराजध्वजिनी मदात् तदानीम् । परतः परतस्तथा तथाऽसौ, जनता जातभयोच्छ्रया प्रयाति ।। तदवेत्य जवेन यादवेन्दोर्बलमागच्छदतुच्छवीवर्गम् । भृकुटीकुटिलं चकार कोपादलिकं श्रीलवणप्रसाददेवः ॥ १ दनेकानि मु० ॥२ यद्यशः वा० ॥ ३ वः कथम् ? प्र० । अत्र कथंपदोपरि. प्र. आदर्श कुतः इति टिप्पणी कृता वर्तते ॥ ४ लोभतः वा० मु० ॥ ५ श्रीसिवन्न प्र० ॥ ६ ‘राद् गुप्र० ।। ७ रगर्वम् मु० ॥ C Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy