________________
सर्गः ।
कीर्तिकौमुदीमहाकाव्यम् । उपकण्ठमकुण्ठविक्रमस्य, स्फुरदुस्रप्रसरी हरिण्मयी स्रक् । शुशुभेऽस्य चुलुक्यभूपलदम्या, भयवत्या निहितेव बाहुवल्ली । परिपन्थिवैरूथिनी प्रभूतां, स नृपस्तुच्छपरिच्छपरिच्छदोऽप्यगच्छत् । बलिनाऽप्यरिणा रणप्रवृत्ती, सुभटानां हि पदानि सम्मुखानि ॥ बलवारिधिराजगाम शत्रोरुपतापीतटमुर्वरोपतापी। रभसादभिधावति स्म वीरः, स महीतीरमहीनबाहुशक्तिः ।। प्रचुरं तदरातिराजचक्रं, तदजय्यं च बलं चुलुक्यभर्तुः । विमृशन् बहुशोऽपि सन्दिहानो, न जनो निश्चिनुते स्थितिं गतिं वा ।। रिपुसैन्यनिवेशभूः प्रजानां, विदिताऽभूदनिवेदिताऽपि दूतैः । गगनाङ्गणगाहनोल्बणैस्तज्ज्वलितग्रामसमूहधूमकूटैः ॥ भृगुकच्छमहीमहीनसस्यां, चरतस्तानचिरेण वृष्णिवर्गान् । न बहूनपि दुर्जयानजय्यः, समरेऽमन्यत वीरकेसरी सः ।। प्रसरत्यथ मत्सरप्रबन्धे, द्रुतमेकेन रगोल्बणं कृपाणम् ।
अपरेण सुतं करेण वीरं, सहसा संयति यान्तमेष दधे ।। चतुर्णा मरुभूपानां लाट-गोद्रहनृपयोश्च गूर्जरत्रोपर्यभियोगः
क्षितिपान्तरविग्रहप्रसक्तौ, पितृ-पुत्रावथ विग्रहीतुमेतौ । विदितावसरैश्चिराच्चतुर्भिर्मरुभूपैः सहसोपचक्रमाते । उभयोरनयोश्चतुर्मि रेभिर्विगृहीतिर्विहिताऽथ साऽपि पृष्ठे । इयतैव बुधैर्विभवनीय, सुभटत्वं मृधमूर्ध्नि यस्य यावत् ॥
__अथ गोद्रह-लाटदेशनाथौ, मरुनाथैनिभृतं निबद्धसन्धी । विधुरे परिहृत्य तत्र मित्रद्वितयं तत्कटकादुपेयतुस्तान् । असतोरबलं तयोः सतोर्वा, सबलं स्वं मनुते स्म नैष वीरः । जलधिविगतैरुपागतैः स्यान्नहि भिद्योद्ध्यजलैः क्षयी चयी वा ॥
पुरतो यदि सिङ्घनस्य सैन्यं, यदि पृष्ठे मरुभूभुजश्च तौ च । न बभूव तयोरचिन्त्यशक्त्योर्मुखरागस्य विपर्ययस्तथाऽपि । पुरतः सरतो यदुप्रवीराननुगच्छन् समरे करीव मत्तः । व्यथितः प्रतिपार्थिवैः स पश्चात्, सपदि व्याववृते नृपः सकोपः ॥ जगति ज्वलिताखिलप्रदेशः, प्रचुरीभूतमलिम्लुचप्रचारः ।
स परस्परविग्रहो ग्रहणामिव तेषामभवन्नरेश्वराणाम् ॥ १ रा.हिरण्म मु० ॥ २ भ्या, वलयत्या वा० ॥ ३ विरू प्र. वा० ॥ ४ सन्मुखा प्र. या० ॥ ५. विवोधनी मु० ॥ ६ यत्क मु० ॥ ७ हि नद्योघजलैः प्र० । भिद्य उद्धय इति एतमामानौ. द्वौ महानदौ ॥ ८ व सत्तमः। व्य वा० ॥
६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org