SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चा गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं अवलोक्य चुलुक्यपार्थिवौ तौ, विपरीतैर्बहुभिर्नृपैः परीतौ । खर-शीतकराविवाम्बुवाहैर्जनतेयं मनुते स्म दुर्दिनं तत् ॥ वलितेऽपि चुलुक्यपार्थिवेऽस्मिन् , न कृतं तैयदुभिः पुरः प्रयाणम् । हरिणैरनुगम्यते न मार्गो, हरिणा तत्क्षणमाश्रितोज्झितोऽपि ।। हरितं परिहृत्य चन्दनादेरथ गम्तुं हिमभूभृतः प्रवृत्तः । अभवल्लवणप्रसादशूरः, प्रसरत्तीव्रतरप्रतापरौद्रः ॥ सहजा इति येषु बन्धुबुद्धिः, प्रथमाऽभूदथ तान् विकारकर्तृन् । षडपि द्विषतो विमृश्य जेतुं, नृपवीरः स पुरश्चकार योगम् ॥ वस्तुपालस्य भेदनाथै शङ्खराजेन दूतस्य प्रेषणम् प्रसृतेऽथ महीक्षितां विरोधे, क्षयसिन्धाविव सिन्धुराजसूनुः । प्रणिधिं प्रजिधाय मन्त्रिणेऽस्मै, तृणवद् विश्वमपि स्मयेन पश्यन् । चुलुकोद्भवभूपतेरमात्य, भयकालेऽपि निराकुलं तमेत्य । प्रणिधिः प्रणिपत्य च प्रवीणो, विनयच्छन्नमदामुवाच वाचम् ॥ सुभटैरपरैर्विमुक्तमस्त्रं, समरोर्वीषु य एक एव धत्ते । अथवा भुवने निराश्रयाणां, शरणं किन्नु तथाविधैर्विनाऽस्तु ! ॥ दलितेऽपि दले स्थितः समित्यां, यदुभिर्यो बहुभिर्धतः कथञ्चित् । हृदयेषु गुणार्जितेषु तेषामपरेषामपि विश्रमं जगाम ॥ विधृतेऽपि सुतेऽत्र तत्सवित्री, न सपत्राकृतमानसा तथाऽभूत् । समरे हि भयङ्करेऽपि व्यक्तः, समसत्त्वेन न येन लज्जिताऽसौ ॥ - अवलोकितमात्र एव गुप्तेबदुसिंहेन विमोच्य सिङ्घनेन । निदधे भुजपञ्जरे स्वयं यः, क लभन्ते गुणिनो हि न प्रतिष्ठाम् ? ॥ विधुरेऽपि न मुञ्चते निजं यः, कुलधर्मं च कुलान्वयप्रदीपः ।। स यदाह मदाननेन शङ्ख, शृणु तन्मन्त्रिशिरोमणे : स्वपथ्यम् ॥ कुलकम् ॥ ___ विषमेऽपि कथं स कृत्यमार्गे, स्खलतु श्रीलवणप्रसादपुत्रः ? । प्रददाति पदे पदे प्रबुद्धः, सचिवो यस्य भवान् करावलम्बम् ॥ ' निपुणोऽसि गुणेषु षट्सु जाने, पुनरेषा तव धीरता कुतस्त्या ? । व्यसने समुपस्थितेऽपि भर्तुर्यदशङ्कः कुरुषेऽधिकारमेवम् ।। अयि ! वेत्ति भवानपीदृशं यत् , पितृभुक्तिर्मम पत्तनं यदेतत् । स्वधनग्रहणार्थमागतोऽहं, समयज्ञोऽसि तदर्ग्यतामिदं मे ॥ १ पुनश्च मु० ॥ २ महीभृतां मु० ॥ ३ °यच्छिन्न वा० ॥ ४ तेष्वपं वा० ॥५°रेऽपि म. वा. मु० ॥ ६ °पि वक्तः वा० । पि वक्तुः मु० ॥ ७ सिंहने वा० ॥ ८ सिष्ठाः वा० ॥ ९ स सत्य मु० ॥ १० ङ्कः पुरुषाधिकारमेकः मु० ॥ ११ अपि मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy