SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मन: । ] कीर्तिकौमुदीमहाकाव्यम् । यदि सम्प्रतिपत्तिरस्ति चित्ते, नगरस्यास्य नियोगवासना च । प्रणम द्रुतमेत्य तत् प्रसन्ने, मयि दूरे न तवाधिकारमुद्रा ॥ अपरोऽपि विधास्यतेऽधिकारी, नगरे कश्वन पैतृके मयाऽस्मिन् । भजसे यदि मां ततः स्थिरैव, त्वयि मुद्राऽस्तु गुणाः प्रियाः प्रभूगाम् ॥ अथ चेतसि किंश्चिदन्यथा ते, स्थितमास्ते तदपि प्रियङ्करं नः । यदसाध्यविरोधिसाधनाय, प्रतिभूरेष ममास्ति खड्गदण्डः ॥ अवलेपमलीकमाश्रितो यः, प्रभुमल्पार्थिनमन्यथा करोति । कुपितेन स तेन दण्ड्यमानः, सह जीवेन ददाति वित्तजातम् ॥ सिन्धुराजदूतं प्रति वस्तुपालस्य प्रतिवचः अथ स व्यथितोऽपि तद्वचोभिन विकारं प्रकटीचकार मन्त्री । मलिनत्वमुपैति वातनुन्नैर्न रजोभिः सुरवाहिनीप्रवाहः ।। जगदे जगदेकबन्धुनैवं, सचिवेनाऽपसरद्वचाः स चारः । भवताऽभिहितं यदात्मभर्तुश्चरितं तन्न चमत्करोति कस्य ? ॥ तरणेरिव सिन्धुराजसूनोर्महसा दुष्प्रसहेन शुष्कदेहम् । दहति स्म सुखेन लक्ष्मदेवद्रुममुच्चैरपि यादवेन्द्रदावः ॥ समरैकरतेरमुष्य सत्वस्तुतिकोलाहलकाहलानिनादैः ।। श्रुतिमार्गमुपैति मर्त्यलोके, सुभटानामभिधाऽपि नापरेषाम् ।। विपरीतमतित्वमस्य मन्ये, यदसावर्थयते पुरं तदेतत् । हयसैन्यसहायतोऽपि सिंहान्नृपसिंहेन विगृह्य यद् गृहीतम् ॥ बहुभिः सह योद्धुमक्षम मे, मनुते स्वामिनमेष तन्मृषैव । ननु निश्चलनिश्चयस्य पुंसस्त्रिदशा यान्ति सहायतां क्रियासु ॥ बकपाटकचेष्टितं न दृष्टं, न च सिद्धेश्वरसन्निधानयुद्धम् । किमनेन मनस्विनो यदस्य, क्षितिमाकाङ्क्षति लीलयैव लब्धुम् ? ॥ तनयः पितॄवित्तमर्हतीति, व्यवहारः पुरुषान्तरेषु युक्तः । परसम्पदपेक्षिणां नृपाणां, स कृपाणे न कृतः पुनः प्रमाणम् ।। तदुपेहि पतिं स्वमेवमस्मद्वचसा ब्रूहि च देव ! वेत्सि सर्वम् । • अवलेपैमिमं विमुञ्च नो चेदयमस्मि त्वमतो विचार्य कुर्याः ॥ ८८ १ डोसा वा• मु..॥ २ भूरस्ति ममैष व मु० ॥ ३ मभ्यर्थि मु० ॥ ४ 'नापि सर मु० ॥५. देहः वा० ॥ ६ धायिनां परे मु० ॥ ७ यदैत वा० ॥ ८ सिंहनादान्नु वा० ॥ ९°नु निश्चयनिश्चलस्य वा० मु० ॥ १० °स्विना यदीशक्षिति प्र० ॥ ११ पममुं विं मु० ॥ १२ त्वमितो मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy