________________
गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं
[ चतुर्थः श्रुत्वा वचः सचिवचक्रशतक्रतोस्तद्, भूयोऽप्यभाषत रुषा परुषाक्षरं सः । आः ! किं ब्रवीषि मदमन्दमतिस्त्वमेवं ?, देवस्य तस्य नियतं नहि वेदिताऽसि ।। ८९ कुर्वागस्त्वयि शस्त्रधारणमसावस्मत्पतिर्लजते,
येनैकेन रणाङ्गणेऽवगणितः सेनाघनः सिङ्घनः । तत् ते चेतसि चेद् विचारकणिका काऽप्यस्ति तन्मुच्यतां,
मानोऽयं नयवेदिनाऽथ भवता वर्मेदमामुच्यताम् ।। अथ सचिवमवश्यमाहवाय, प्रवणमति मतिमानयं विदित्वा । पवन इव वनोन्मुखं कृशानु, विभुमभिषेगनवाञ्छमभ्यगच्छत् ।।
॥ इति श्रीगूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते कीर्तिकौमुदीनाम्नि महाकाव्ये दूतसमागमनो नाम चतुर्थः सर्गः ॥ ४ ॥
..
....
..
...
.
१ वर्मेदमा वा० मु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org