SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। orror, सिन्धुराजेन साकं गूर्जरेश्वरस्य संग्रामः कथितारिविचारेग, चारेण प्रेरितस्ततः । सिन्धुराजात्मजः सिन्धुर्वायुनेवोदजम्भत ॥ कुपितः करवालेन, सिन्धुराजाङ्गभूर्बभौ । कल्पान्तविप्लुतः शम्भुः, कृतान्तेनेव सङ्गतः ॥ भृकुटीघटना भाले, तस्य भाति स्म भीषणा । त्र्यक्षचक्षुर्यया जिग्ये, युगान्तोद्वान्तपावकम् ॥ रुषा स्मितमुखः शङ्ख, शङ्खपाणिसमच्छविः । नाभवद् भीतये कस्य सितविद्युदिवाम्बुदः ॥ स प्रतस्थे हयोदस्तैः परागपटलैर्घनैः । प्रावृषं राजहंसानामकाले कल्पयन्निव ।। केकिपत्रमयच्छत्रच्छन्ना तस्य पताकिनी । जङ्गमोद्यानलेखेव, दो:स्थिताया जयश्रियः ॥ झटित्यागत्य साटोपो, बटकूपसरस्तटे । व्याचष्ट पटहौद्घोपैर्द्विषामेष स्वमागतम् ॥ निस्वाननिस्वनानस्य, स्वकर्गाभ्यर्णमागतान् । उदस्तभृकुटीमङ्गया, मन्त्री प्रत्युदगादिव ।। मन्त्री यद्यपि गाम्भीर्याद, भावं नाऽऽविश्चकार तम् । तथाप्येष कृतोत्थानैर्व्यक्तीभूतः शिरोरुहैः ॥ ९ सन्नद्धसैनिकः शङ्खो, भिन्नशङ्ख इव द्विपः । सङ्गरावेशदुर्वारः, सञ्चचार शनैः शनैः ।। [आविष्ट इव राधेयवधोग्रेण किरीटिना । स तदा सचिवश्चापमाममर्श मुहुर्मुहुः ।।] स चौक्यनृपामात्यः, सञ्चरत्यरिसञ्चये । सैन्यमारचयामास, त्रासमुक्तेन चेतसा ।। चन्दना-गुरु-कर्पूर-कस्तूरीकुसुमस्रजः । स्वःस्त्रीसम्भोगमिच्छद्भिरिव धीरविंदधिरे ॥ मन्नाहः सङ्गरारम्भसम्भवत्सत्वसम्पदः । उच्छ्वसत्याममात्यस्य, न मात्यस्य तनौ तदा ॥ १३ दक्षिणेनाहिणा क्षोगिक्षोदनाजयशसिनम् । आरुरोह जवादश्वमश्वराजाङ्गसम्भवः ॥ ., श्रीवीरनृपमुद्रां यः, सदा धारयते करे । वीरशूद्रकमुद्राऽपि, धृता तेन तदा हृदि ।।.. . १ भदा भुवनपालाया, यद्यप्यग्रे तदाऽभवन् । तथापि स पुरस्तेषां पौरैः शूरतया मतः ॥ १६ अग्रे शङ्खचमूचक्रं, मध्ये प्रहरणाङ्गणम् । पारेरत्नाकरं वीरशिरोरत्नमसौ स्थितः ।। समासन्नेऽपि सङ्ग्रामे, शौर्योद्भेदं न भाषितैः । स चक्रे सचिवोत्तंसः, क्रियासाराहि तादृशाः ॥ १८ स्थितं सङ्ख्यमुखे शङ्खस्तं वीक्ष्य विकसन्मुखम् । पाणौ रणरसोत्तालः, करवालमलालयत् ॥ १९ स्थितेऽत्र सम्मुखे शङ्ख, प्रवेष्टुं नाशकत् पुरीम् । रोहिणी रोषरौद्रोऽपि', यथा दशरथे शनिः ॥ २० चलन्मन्त्रिबलोरिक्षप्तः, क्षोणिरेणुगणोऽनणुः । उदेष्यतः प्रतापाग्ने—मराशिरिवोत्थितः ॥ धूलिध्वान्तोदये तस्मिन् , मुखोद्योतेन मन्त्रिणः । प्रतापः प्रकटीचक्रे, श्रीवीरधवलप्रभोः ॥ २२ प्रभूतमपि तत् सैन्यं, क्षोभायाभून मन्त्रिणः । तेऽल्पेऽपि बहवो येषां, रणारम्भे स्थितं मनः ॥ २३ स्थितेन तेन धीरेण, कर्तुमद्वैतमात्मनः । गोष्ठीसमः समित्यां स, स्याद्वादी सचिवो यदि ॥ . २४ . १ केतु, मु० ॥ २ उदनभृ मु० ॥ ३ पद्यमिदमधिकं वर्तते प्र० आदर्शे ॥ ४ 'त्या अमा मु०॥ ५ क्षोणीक्षों प्र० ॥ ६ 'पि, व्यथादशरथो मु० ।। ७ क्षोणीरेणुगणो ननु मु० ॥ ८ त्वां यः, स्या मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy