SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २४ . m m गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं [ पञ्चमः वाहिन्योस्तत्र सम्भेदे, स कोऽपि तुमुलोऽभवत् । यस्याग्रे मन्द्रतामेति, सामुद्रोऽपि महाध्वनिः ॥ २५ अवाञ्चितानि चापानि, भ्रुवोर्युग्ममुदञ्चितम् । सुभटैः कोपसाटोपैः, सेनयोरुभयोरपि ॥. काण्डानां सह कोदण्डगुणैः सन्धिरजायत । तेषां वीरप्रकाण्डानां, विग्रहस्तु परस्परम् ।। कर्णे लगद्भिरन्येषामन्येषां जीवितव्ययम् । कुर्वाणैर्विदधे बाणैः, स्पष्टं दुर्जनचेष्टितम् ॥ २८ तत्राऽऽहवमहातीर्थे, विशिखैर्गुणनिर्गतैः । भित्त्वा विकर्तनं चक्रे, परस्मिन् पुरुषे लयः ॥ विहाय शरधिं वेगाच्चापमापुः शिलीमुखाः । चिह्नमेतत् सपक्षाणां, विधुरे यत् पुरः स्थितिः ॥ वक्षो विक्षिप्य वैपक्ष, पत्रिणः परतो गताः । न चिरं निर्गुणैर्लभ्या, धीराणां हृद्यवस्थितिः ॥ ३१ खगिनः खनिभिः कुन्तपाणयः कुन्तपाणिभिः । योधा योधैर्हयारूढा, हयारूढैश्च सङ्गताः ।। ३२ मन्त्रीशकरसंसर्गादिव दानार्थमुद्यतः । असिरुत्सृष्टवान् कोशं, बद्धमुष्टिरपि क्षणात् ॥ ३३ वीराणां पाणि-पादाब्जैः, पूजितेवाऽऽहवक्षितिः । दत्तार्थेव च दूर्वाभकेशमित्रैः शिरःफलैः ॥ ३४ अहिंसावतभङ्गेन, का स्यात् तस्यात्र वाच्यता ? । पुरुषत्रतनिर्वाहो, येन तादृक् कृतस्तदा ॥ . ३५ अहिंसाभङ्गसम्भूतां, मन्त्री माटुं मनःखिदम् । चक्रे दिव्यमिव स्नानं, स शूरः शरवृष्टिभिः ॥ ३६ प्रभुप्रोत्साहनं पृष्ठे, मागधोत्तेजनं पुरः । विक्रान्तानां विशेषेण, जातं विक्रमवृद्धये ॥ ३७ उद्दिश्यापि द्विषा मुक्तैर्न मन्त्री बिभिदे शरैः । अदृष्टः कोऽपि शिष्टानां, बद्धकक्षो हि रक्षणे ॥ ३८ सुभटासृक्सरित्पूरः पुस्ताद् दुस्तरो यदि । तथापि न विशश्राम, मन्त्री शत्रूनभि व्रजन् ॥ ३९ विभाव्य तमसम्भाव्यमवष्टम्भं रणे रिपोः । स्वचमूचरसंहारमारब्धं च परैः पुरः ॥ वीरः सङ्ग्रामसिंहोऽथ, सङ्ख्ये शङ्खापराह्वयः । आविर्भावितवानुचैर्निजसंरम्भसौरभम् ॥ युग्मम् ॥ अपि भ्रूपल्लवोल्लासः, परैर्यस्य सुदुःसहः । तस्य सङ्ग्रामसिंहस्य, खगोल्लासं सहेत कः ? ॥ ४२ तमन्तकमिवाऽऽयान्तमनपेक्षितजीवितः । भटो भुवनपालाख्यः, शङ्के प्रत्यभिजग्मिवान् ॥ सखा शङ्खस्य सामन्तः, सेनां सीमन्तयन्नरेः । बलाद् गुलकुलोतंसमभ्ययुक्त तमन्तरा ।। शास्त्रैः शस्त्रेषु भग्नेषु, तयोरप्रतिमल्लयोः । मल्लयोरिव सञ्जज्ञे, केशाकेशि भुजाभुजि ॥ वियति प्रेक्षमाणाभिरप्सरोभिर्मधं तयोः । बहु मेने स्वकीयानां, चक्षुषामनिमेषता ॥ सामन्तमन्तकस्यान्तं, स नीत्वा सत्वरं पुनः । समं सङ्ग्रामसिंहेन, सङ्ग्रामं कर्तुमभ्यगात् ।। ४७ शङ्खन खगघातैस्तैः, खण्ड खण्डं कृतं वपुः । सङ्ख्ये भुवनपालस्य, पौरुषं न तु खण्डितम् ॥ ४८ स वीरो मन्त्रिवीरस्य, शङ्खासिव्यस्तमस्तकः । तस्य प्रभुप्रसादस्य, प्राणैरुच्छ्रवणोऽभवत् ॥ श्रुत्वा भुवनपालस्य, निधनं मृधमूर्धनि । मन्त्री तेनैव वैरेण, रणाय प्रवणोऽधिकम् ॥ प्रियं विक्रामतां क्रेतुमसुभिः सुलभं यशः । धृतासिः प्राविशद् वीरो वीरमः समरापणम् ॥ शङ्खपत्तिजयन्तश्च, मन्त्रिपत्तिश्च वीरमः । उभो शम्भुसभा यातौ, सविवादौ जयश्रिये ॥ वैरिणामपि वीरेण, रणान्तर्व्ययितात्मना । वाचि चाचिगदेवेन, स्वबाहुस्तुतिराहिता ॥ ५३ तुमलो प्र० वा० ॥ २ हृदयस्थितिः प्र० ॥ ३ 'रसद्गार वा० ॥ ४ मकमिवमाया मु.॥ ५ गपातै मु० ॥ ६ रुच्छ्राव प्र० वा० ॥ ७ शम्भू समां या मुं० ॥ ५० AU Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy