SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सर्गः । ] कोर्तिकौमुदीमहाकाव्यम् । स्थित्वा विपद्यमानेन, भग्नेऽपि स्वचमूजन । पदे पदे कृतः स्तोमः, सोमसिंहेन सङ्गरे ॥ ५४ स्वामिशत्रुमहत्वाऽपि, मृतोऽस्म्पति हिया किल। विजयेन तथा यातं, नेहाऽऽयातं यथा पुनः॥ ५५ मातलक्षेपबुद्धयेव, शङ्केन दृढमाहतः । भटो भुवनसिंहस्तु, सपदि त्रिदिवं गतः ॥ ५६ प्राणेभ्योऽपि प्रियं शस्त्रं, क्षत्राणामिति निश्चयः । तथाऽभ्युदयसिंहेन, त्यक्तास्ते नोज्झितं तु तत् ।। ५७ स्वखङ्गखण्डितैर्वीरशिरोभिर्विषीकृते । पेते विक्रमसिंहेन, क्रोधान्धेन मृधाध्वनि ।। विभ्यमः कुलसिंहेन............दर्शनात् । वक्रा च विस्फुरत्कुन्ते, युद्धे वै कुण्ठबुद्धिना ॥ ५९ मित्वा भल्लीभिरङ्गेभ्यो, निर्गताननपङ्क्तिभिः । उद्दलैन् शुशुभे तंत्र, सोऽयं द्रुम इवोद्दलः ॥ पश्यतः सचिवं धीरं, तथैव स्थितमग्रतः । शङ्खस्यापि चमत्कारः, प्रससार तदा हृदि ॥ विकारवर्जितं वीक्ष्य, साक्षात् तं पुरुषं परम् । प्रबुद्धमिव शङ्खन, विरमत्कोपसम्पदा ।। चौलुक्यचन्द्रसचिवेन्द्रमवार्यशक्तिं, मत्वा स्थितं स्थगयताऽथ रजोभिराशाः । आकम्पितप्रचुरपत्रनृपांहिपेण, शङ्खन यातमपसृत्य महाबलेन ।। मन्त्रीश्वरोऽयमनुभूतभटोपमर्दः, सौवर्णपिण्ड इव सोढहुताशतापः । आनन्दकन्दलितबाष्पविलोचनेन, लोकेन पूजितमतीव बभाज तेजः ।। समामसिंहं स महानियोगी, योगी यथा योगबलेन कालम् । संहर्तुमायान्तमतीत्य चक्रे, कुशाग्रबुद्धिः कुशलं पुरस्य ॥ संवीक्ष्य वीररसरोपितरोमराजिराजिक्षिति क्षतभटामिषगर्द्धिगृध्राम् । मन्त्री न्यवर्तत ततः प्रेमदाश्रुपूतैः, सूतैः पुरः प्रतिपदोदितदोर्विभूतिः ।। '. सन्धाय बन्धुनताजनितोपगेधौद्, दूरे विरुद्धहृदयोऽपि समं नृपस्तैः । . पुत्रेण तेन सह दुःसहपौरुषेणे, सोऽथाऽऽससाद नगरी लवणप्रसादः॥ प्रतिनृपतिभिर्भग्नोत्साहैर्निमग्नमिव क्वचित , स च नरपतिर्वीरस्तीरं जगाम मृधाम्बुधः । .. . दिशि दिशि यश:स्तोमान् सोमान्वयी समचारय चतुरकुरलीचाणक्योऽयं प्रियङ्करणैर्गुणैः ॥ ॥ इति गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते कीर्तिकौमुदीनाम्नि ___ महाकाव्ये युद्धवर्णनो नाम पञ्चमः सर्गः ॥५॥ → १ विमभ्यः मु० ॥ २ प्र. आदर्श पद्यस्यास्य स्थानं रिक्तं वर्तते ॥ ३ रङ्गिभ्यो वा० मु० ॥ ४ न् सो शुमे वा० ॥ ५ तशोऽयं वा० मु० ॥६°वं हीरं वा० मु० ।। ७ यानम वा० मु० ॥ ८ वर्द्धिनमा वा० । षमागृध्नाम् मु० ॥ ९ प्रमदोपपूतैः वा० । प्रमदोपहूतैः मु० ॥ १० धाद् , वीरैविःमु० ॥ ११ °ण स्वार्थी सं वा० मु० ॥ १२ चतुरतुरली मु० ॥ १३ क्यो. सौ प्रिं.प्र..॥ की. ४ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy