SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। श्रीवस्तुपालेन बलान्निरस्तां, तां दुस्तरामापदमाकलय्य महोत्सवानामकृत प्रवृत्ति, वीतोपसर्गः पुरवासिवर्गः ॥ गृहे गृहे धातुरसानुलेपाः, समन्ततः स्वस्तिकपङ्क्तिमन्तः । विरेजिरे तूर्यरवानुकूलाः, कुलाङ्गनामङ्गलगीतयश्च ।। बभूव देवेषु विशेषपूजा, राजन्यमार्गेषु विशेषशोभा । ' विशेषहर्षः पुरपूरुषेषु, विशेषवेषश्च वधूजनेषु ॥ येषां निमेषार्द्धमपि क्षपायामायान्न निद्रा रिपुविद्रवेण । सुस्थीकृतानां सचिवोत्तमेन, तेषां च हर्षान्तरितेयमासीत् ॥ पुरप्रजानां प्रमदामृतेन, तेनातिमात्रं शिशिरीकृतानाम् । निःशेषिताशेषसरःसमृद्धिीष्मो न भीष्मोऽप्यभवद् भयाय ॥ शिरीषपुष्पप्रचयच्छलेन, शुचिर्दधानो हृदयं मेंदीयः । आषाढवान् बाढमपास्तकामः, कर्मन्दिकल्पस्तमुपाजगाम ।। आमात्यमालोक्य चुलुक्यभर्तुः, कर्तुं स्थितं शस्त्रभृतो निरस्त्रान मन्ये मनोभूरपि मन्दमन्दं, चापक्रियाचापलमाचचार ।। दिङ्मण्डली पाटलिपुष्पगन्धसम्बन्धसोन्मेषमरुन्मिषेण । शान्तोपतापा सचिवेन तेन, सन्तोषतः श्वासमिव व्यमुञ्चत् ।। अस्मान् सुखेनोतरतु भ्रमन्ती, कीर्तिस्तदीयेति कृशास्तटिन्यः । बभूवुरासामसदेतदन्तः, सा हि क्षमा सागरलङ्घनेऽपि ॥ प्रतापिनः पल्लवितप्रतापः, शुचिः शुचित्वाधिगतप्रसिद्धेः । कविप्रियोऽसौ प्रथयाञ्चकार, निन्दां निदाधस्य जडप्रियस्य ॥ पीयूषबिन्दुप्रसवं स्रवन्ती, गुणावलियस्य गलन्तिकेव । स्थितोपरिष्टादपि विष्टपस्य, प्रीतिं प्रतप्तस्य तदा ददाति ॥ . ऋतुर्दिगन्ताक्रमणोद्यतस्य नयनयं बुद्धिमिनस्य तेजः । तेनाभविष्यत् सचिवेन तुल्यः, प्रजोपतापं यदि नाकरिष्यत् ॥ संशोषिताशेषनदे निदाघे, मन्त्रीशदृष्टिः कमलाभिरामा । तृष्णापहारं न चकार कस्य, प्रपेव सन्मार्गमुपागतस्य ? ॥ पुण्ड्रेक्षवः क्षीणरसाः सरस्यः, शुष्का विशुष्काश्च गवां समूहाः । । चूतदुमो वा सचिवोत्तमो वा, तदाऽर्थिसाथै सफलीचकार ।। १ स्वस्थी प्र० ॥ २ प्रदीपः मु० ॥ ३ जलनि वा० ॥ ४ जतु मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy