________________
ः ।]
महाकाव्यम् ।
स्वरक्षितस्याथ पुरस्य तस्य, वैशेषिकीं वीक्षितुमेष शोभाम् । इष्टां नमस्कर्तुमनाश्च देवीं, श्रीवस्तुपालः सचिवश्वचाल || प्रसर्पतः प्रोषितगर्वभावात्, परिच्छदो यद्यपि तस्य तुच्छः । स्त्रीभिः कृताः प्रेक्षणैकाङ्क्षिणीभिस्ते सङ्कटा राजपथास्तथापि ॥
तं राजवीध्यामथ सञ्चरन्तमालोकयन्त्यः पुरलोककान्ताः । दातेति पाति जेयीत्ययीति, क्षमीति वाग्मीति भृशं शशंसुः ॥ मनोरमाकारममात्यमेतमिवोपगन्तुं हृदयानि तासाम् । चक्रुः पुरस्तादुपढौकनाय, फलद्वयं चारुकुचद्वयेन ॥ तमन्तिके यान्तमवेत्य बन्दिशब्दैरथ द्रष्टुमगारगर्भात् । द्रुतं प्रयान्ती रसनानिनादैराकारयत् काऽपि सखीरिवान्याः ॥ जवेन यान्त्यास्तदवेक्षणाय, कस्याश्विदम्भोजनिभेक्षणायाः । का सखीभिर्विधृता गलन्ती, नितम्बतो न स्थिरता तु चित्तात् ॥ तदा तदालोकनलोलदृष्टिः, संवृण्वती स्वाङ्गकमंशुकेन । हृत्कोटरान्तर्निहितस्फुलिङ्गमनङ्गमन्या प्रकटीचकार ॥ तेनाङ्गना प्रत्यवलोकिताऽन्या, त्रपातिभारेण भृशं नमन्ती । रराज कन्दर्पकिरातमुक्तसमापतन्मार्गणैवञ्चिनीव ॥ परा स्मरावेशनिवेशिताश्रुः प्रयुक्तनेत्रद्वितयाञ्जनाऽपि । सुधानिधानं सचिवप्रधानं, नालोकितुं सम्यगलम्बभूव ॥ न पुष्पचापादपरोऽस्ति चापी, यस्मादमात्यप्रणयोन्मुखीनाम् । न कञ्चुके किञ्चन वेधचिह्न, भिन्नं मनस्तेन घनस्तनीनाम् ॥ लज्जावती तं प्रति काऽपि बाला, जालान्तरालेन दृशं मुमोच । इषुर्ययाऽजीयत वप्रमारमार्गार्गतः कामचमूचरस्य || तद्दर्शिनीनां हृदि सुन्दरीणां मनोभवदमाधवकेलिसौधे । प्रभूतदुर्वारपरिच्छदोऽपि, लेभे प्रवेशं सचिवेन्दुरेकः ॥ मन्त्रीशमालोक्य सुलोचनानां, स्वभावलोलान्यपि लोचनानि । नान्यत्र कुत्रापि गतिं वितेनुर्गुणैस्तदीयैरिव सन्दितानि ॥ श्रीखण्डमत्युत्सुकया कयाचिद्र, देहैकदेशे निहितं ततोऽपि । घर्माम्भसा मृष्टममात्यदृष्टाविष्टाप्तिरल्पाऽपि जडादपैति ॥ समीपमाजग्मुषितत्र मन्त्रिमधौ दधाने सुमनःसमृद्धिम् । *रोमोमोद्यन्नवमञ्जरिश्रीर्माकन्दमालेव परा व्यराजत् ॥
Jain Education International
1
For Private & Personal Use Only
२७
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
२७
२९
"यी नयी मु० ॥
याती वा० ।। ३ नबन्दिनी बा० ॥ ४ न्तरेण[स्व] वा० ॥ ५ गङ्गतः वा० ॥ ६ व बन्दि मु० ॥ ७ 'मोद्यमो वा० मु० ॥
२८
www.jainelibrary.org