SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं उद्दामकामक्षितिपाज्ञयेव, क्रियान्तराण्यकृतानि मुक्त्वा । . स्त्रीणां गणः श्रीकरणप्रधानममुं समालोकत सावधानः ।। खिन्नाऽध्वनि श्रोणिभरेग तावदेथ व्रजन्तं सचिवं विलोक्य । काऽपि प्रयातुं पदमप्यशक्ता, सहामुना स्वं प्रजिघाय चेतः ॥ ग्रहैः शुभैः सत्यममात्यशम्भुर्दृष्टः स दृष्टया परिपूर्णयैव । पुराङ्गनानामनुरागिणीनां नेत्रत्रिभागेनै निभालितो यत् ।। तत्कालमुन्मीलितमीनकेतुञ्चरातुराणां पुरसुन्दरीणाम् ।। अदत्त चित्तं न स दान्तचित्तस्तद्धर्मपन्याः प्रथमं हि दत्तम् ॥ रेमे न रम्येऽपि वधूजनेऽत्र नेत्रदयं मन्त्रिमतल्लिकायाः । न तादृशास्तादृशसंयमेषु, प्रलोभनाय प्रभवन्ति भावाः ॥ अथाऽऽशिषः सैप नतेन मू| गृहगन् वितीर्णाः कुलबालिकाभिः । विभूषितस्तम्भपुरोपशल्यामेकल्लवीरां प्रददर्श देवीम् ॥ तां सप्तलोकप्रणतां प्रणन्तुं, जगाम दूरे स दुरापकीर्तिः । न वेत्ति विद्वानपि संवसन्ती, वाणीस्वरूपेण निजे मुखाब्जे ।। दुग्धेन दना मधुना घृतेन, खण्डेन तोयेन च शुद्धमूर्तिम् ।। आनर्च देवी सचिवः प्रसून-कर्पूर-कृष्णागुरु-चन्दनाथैः ।। चकार देवीवदनारविन्दे, स दन्तपङ्क्तिं धनसारखण्डैः । हर्ष वहन्ती हृदि सप्रकर्ष, साक्षात् सहासेव बभौ यया सा ॥ नैवेद्यवृन्दैरनवद्यवृत्तैः, शिष्टानुकूलश्च दुकूलकूटैः ।। धूपैरयं भूपसभानुरूपः, प्रसादयामास दयाश्रयस्ताम् ।। नुत्या च नत्या च विशेषवत्या, देवीं समानीय मुदं स मानी । श्रीवीरभूपालकृपाणदण्डे, स्थिति ययाचे हृदि च स्वकीये ।। अथोष्मणि ग्रीष्मसमुत्थितेऽन्तदेहं स्मास्कन्दति देहभाजाम् । शङ्के समग्रोऽपि रसः सशङ्कः, स्वेदाम्बुदम्भेन बहिर्बभूव ॥ चण्डद्युतौ मण्डयति धुमध्यं, मध्यन्दिनोद्दीपितदीप्तिदृप्ते । समं स मन्त्री गुणिनां गणेन, क्रीडावनं प्राप सनीडॅवर्ति ।। मन्त्री तदासाद्य वनं ननन्द, ग्रीष्मे महीं शोषयितुं स्थिते यत् । भ्रमद्घटीसङ्घटितारघट्टखाट्कारशब्दैः प्रतिगर्जतीव ।। दीर्धेर्निदाघस्य दिनैर्मनोभूरलब्धसिद्धिर्भजति स्म सम्यक् ।। वनस्य तस्यातिघनद्रुमस्य, च्छायातमी तारकितां प्रसूनैः ।। 'दद्य व मु० ॥ २ र्णयेव मु० ॥ ३ °न विलोकितो वा. मु० ॥ ४ पल्या , वा० ॥ ५'लकामिनीभिः प्र० ॥ ६ हास्येव वा० मु० ॥ ७ °डकोतिं वा० ॥ ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy