________________
सर्गः । ] . कीर्तिकौमुदीमहाकाव्यम् ।
अमात्यमत्यर्थमुपास्तदौस्थ्य, पिकाङ्गनाकृजितकैतवेन । उल्लासिमल्लीमुकुलाग्देत्यः, सत्यं स्तुवन्ति स्म वनाधिदेव्यः । हिमासहोऽयं समयस्तमिस्रहिंस्रः सहस्रांशुरिमौ समेतौ । मत्वेव ते भीति-रती प्रविष्टे, छायाविशिष्टं वनदुर्गमेतत् ।। लीलावनेऽस्मिन् नवमेघलीलामरन्दबिन्दुप्रकर किरन्तः । विनाऽपि वर्षासमयेन हर्ष, शिखण्डिनां ताण्डवयन्ति वृक्षाः ॥ स एव धर्मांशुकरानुषङ्गादङ्गानि पुंसां पवनो दुनोति । धिनोति सदृशवनोपसेवी, सङ्गः कुलीनैरत एव युक्तः ।।
प्रकल्पितायां क्षितिकल्पवृक्षो, द्राक्षालतामण्डपवेदिकायाम् । कृतोपवेशः स चकार गोष्ठीमनिष्टुरोक्तिप्रसरैः कवीन्द्रैः ।। केचित् कुलं भीतिनिराकुलस्य, कृतावदानस्य परे च दानम् । मान्यत्वमन्ये विनिवृत्तमन्योाचख्युराख्येयगुणस्य तस्य ।। कवीन्द्रशैलेन्द्रविनिर्गतानां, सरस्वतीनां प्रसृतान् प्रवाहान् । आरुह्य भूमण्डलमासमुद्रमियर्ति मन्त्रीश्वरकीर्तिहंसी ॥ कवीश्वराणां पृणति स्म वागी, कर्णद्वयं कर्णसमस्य तस्य । सोऽपि प्रमोदं हृदयेषु तेषामुदारपाणी रचयाञ्चकार ।।। दत्ते स्म तेभ्यः सचिवः कविभ्यः, प्रभूतमत्यद्भुतकीर्तिरर्थम् । • आदत्त चिद्रूपतया निगूढमप्यर्थलेशं तु तदुक्तसूक्तात् ।। मनीषिणां मानसमन्दिरेषु, श्रीमानमात्यो निवसनजस्रम् । तेभ्यः स क्लुप्तं वितरत्यगण्यहिरण्यविश्राणनकैतवेन ॥ तस्मिन् वने सत्कविवक्त्रयन्त्रविनिर्गतेन श्रवणामृतेन । संसिच्यमानः सचिवः प्रधानमह्नाय मध्याह्नमयं निनाय ।। आशायामशिशिरधाम्नि पश्चिमायामायाते सुकृतवतामपश्चिमोऽसौ । तान् कृत्वा धनकनकैः कवीन कृतार्थानावासं स्वमभि चचाल वस्तुपालः ॥
॥ इति श्रीगूर्जरेश्वर पुरोहितश्रीसोमेश्वरदेवविरचिते कीर्तिकौमुदीनाम्नि -
महाकाव्ये पुरप्रमोदेवर्णनो नाम षष्ठः सर्गः ॥६॥
१ दन्त्यः वा. मु० ॥ २ तदीय मु० ॥ ३ मोदो नाम प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org