________________
सप्तमः सर्गः ।
अथोदयति निर्दोषे, सचिवेन्दौ नवे रवौ । कोक - कोकनदानन्दि, मन्दिमानमगान्महः || गम्यः सोऽपि जगच्चक्षुश्चक्षुषां समपद्यत । कः कालवलनेनात्र, निस्तेजा नहि जायते ? | लौहित्यं विद्रुमालीषु, द्रुमालीपल्लवेषु च । अधिकं निदधे ब्रघ्नः किरणैः कुङ्कुमारुणैः || शुशुभे दिक्षु सर्वासु, प्रज्वलत्तपनोपलः । शिरस्थरविरस्तात्रिः, पञ्चाग्निव्रतवानिव ॥ वियोगत्र्यथया वीदय, साकन्दां चक्रकामिनीम् । प्रम्लाना सहसंवासस्नेहेनेव सरोजिनी ॥ मित्रेऽस्तमागते दुःखादब्जैः प्रागान् जिहासुभिः । शालिग्रामशिलेवालिग्या जादारोपिता हृदि ॥ न मित्रमन्तरेणापि, क्षणमभ्यासवासरः । भवत्यव्यभिचार्येव, सङ्गतं गतदशेषयोः ॥ प्रतापः प्राप मन्दत्वं, वारुणीसेवया रवेः । भवेत् प्रभावभङ्गाय, महतोऽपि हि दुष्कृतम् ॥ निश्चला कस्य वाऽन्यस्य, भुवने श्रीभविष्यति ? । आसीद् वसुविहीनोऽसौ यदह्नामपि नायकः || अपि तादृशस्ताद्रिर्दिनेश निरकाशयत् । चिरं न ह्याश्रयः कापि प्राप्यते दिवसात्यये ॥ कुलायमाकुलाः सर्वे, पक्षिणस्तत्क्षणादयुः । कस्त्यजत्यथव पस्त्यं सत्यां सवितुरापदि ? ॥ वनान्ताद् वलमानेन, कुलेनोद्गमितैर्गवाम् । पांसुभिर्मांसलीभूतं कुतोऽप्याविरभूत् तमः ॥ समन्ततोsपि काष्टानां, प्लुष्टानां चित्रभानुना । धूमेनेव तमिस्रेण, प्रसत्रे गगनाङ्गणे || मुक्त्वा निःश्रीकमप्यब्जं मराली न गताऽन्यतः । भ्रमराली त्वगाद् वेगादिदं सदसदन्तरम् || त्रैलोक्यदीपके देवे, लोकान्तरमुपेयुषि । तमस्तान्तमभूद् विश्वं कः सुखी महदापदि ॥ गते भानौ स्थिते ध्वान्ते, पद्मिन्या साधु मीलितम् । दुरीक्षा महतामापदसतामुन्नतिश्च यत् ॥ स्थित्वाऽथ प्रस्थिता सन्ध्या, व्रजद्वाजिव्रजाकुला । आक्रामतः परं लोकं, रवेः पश्चाच्च मूवि || ससन्ध्या-वासरं सूर्य, मत्वा देशान्तरं गतम् । जायाऽनुजान्वितं राममिव म्लानमभूज्जगत् ॥ क गतः सविता ? ध्वान्तमेतदप्यागतं कुतः ? । एवं सविस्मयेव द्यौः, स्फारतारमवैक्षत || दीपक अपि दीप्यन्तां स्फुरन्तु तिमिराण्यपि । तद् गतं हि सजातीय - विजातीयासहं महः ॥ स्रष्टुः सृष्टिर्विचित्रेयं यस्मात् सङ्केतवर्त्मना । पियानभिसरन्तीनां प्रकाशकमभूत् तमः ॥ प्रदोषानन्तरं चन्द्रोदयादर्वाग् मृगीदृशाम् । मुहूर्तमभिसाराय, मार मौहूर्तिकोऽब्रवीत् ॥ सुरतव्रतचर्या, पर्यङ्कादपि सज्जितात् । पांशुलानामभूत् पांशुतल्पतीर्थं यैवाधिकम् ॥ नीरन्ध्रेणान्धकारेण, रोदसी सम्पुटीकृते । अद्योद्घाटयितुं कोऽपि प्रवृत्त इव पूर्वतः ॥ रचित्तोपक्रमे राज्ञि चक्रमाक्रमितुं दिशाम् । प्रभादम्भेन नासीरमाविरासीत् पुरः स्फुरत् ॥ रोहिणीरमणं वीक्ष्य, रागादागतमन्तिके । सस्मितेव तदुद्योतदम्भादभवदिन्द्रदिक् ॥
अथोज्जगाम सामन्तः, कुसुमास्त्र महीपतेः । शृङ्गारस्य जयोद्गारबन्दी कुमुदबान्धवः ॥
Jain Education International
१
For Private & Personal Use Only
३
४
с
८
९
१०
११
१२
-१३
१४
१ 'णात्र, क्ष प्र० ॥ २ वा यस्य स वा० । वा यन्नं, उ प्र० ॥ ३ खरे प्र० ॥ ४ दीपिका मु० ॥ ५ यथाधिं प्र० ॥
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
२७
www.jainelibrary.org