SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २ ന ് ന ന ന ന ന MY MY MY ०० सर्गः।] कीर्तिकौमुदीमहाकाव्यम् । आविर्बभूव पूर्वस्मादद्रेश्चन्द्रः शनैः शनैः । तदीयैस्तटमाणिक्यकिरणौधैरिवारुणः ॥ चकार तारिकारोचिरङ्करोत्करकैतवात् । करस्पर्शेन रागिण्याः, सोमो रोमोद्गमं दिवः ।। पुंश्चलीनां तपश्छिद्रं, समुद्रस्य महोत्सवः । रससिद्धिरनङ्गस्य, दिवमिन्दुरगादगात् ॥ मालिन्य मार्जयामास, चन्द्रमास्तिमिरैः कृतम् । खलैर्दत्तं मृषादोषमिव सत्पुरुषः सताम् ।। व्योमाङ्गणविकीर्णानि, तमांसि तुहिनद्युतिः । ममार्ज रुचिमार्जन्या, कुलटाकुलकण्टकः ॥ न मृगाङ्के कलङ्कोऽयं, कस्तूरीतिलकाकृतिः । निर्दग्धो नीलकण्ठेन, तिष्ठत्येष झषध्वजः ॥ दिवि स्वर्वाहिनी हंसैदिक्षु दन्तैश्च दन्तिनाम् । मेदुराऽजनि मेदिन्यां, कौमुदी कौमुदैर्वनैः ।। कणेहत्य चकोरीणां गणः पीत्वा सुधासवम् । अजायत मदेनेव, गुञ्जापुञ्जारुणेक्षणः ॥ मरीचिनिचये चान्द्रे, सति सान्द्रे समन्ततः । घटितं विष्टपं दन्तसन्तत्या दन्तिनामिव ।। शान्तध्वान्त-घनस्तोमे, कौमुदी-शरदागमे । हृदि श्यामोऽन्यतः श्वेतश्चकाशे चन्द्रखञ्जनः ।। चन्दनैश्चर्चितेव द्यौदिशः काशैरिव श्रिताः । क्षीरेण क्षालितेवोर्वी, शर्वरीशे विराजति ।। पीयूषपायसैः प्रीतं, चकोरद्विजसञ्चयम् । श्रेयोऽथ मन्मथस्येव, चकार शिशिरद्युतिः ।। सन्दोहैरिन्दुकान्तानां, तदा सम्भवदम्भसाम् । प्रीतये चैत्रमित्रस्य, चन्द्रश्चक्रे प्रपा इव ॥ तरुणे तारकाध्यक्षे, वृक्षच्छाया विरेजिरे । तमसः खण्ड्यमानस्य, प्रतीकाः पतिता इव ॥ रमयत्यखिलामुर्वीमचण्डद्युतिमण्डले । कन्दर्पनृपते राज्यमेकच्छत्रमिवाभवत् । सान्द्रे चन्द्रातपे तत्र, स्फुरद्भिः कैरवाकरैः । क्षीरनीरधिडिण्डीरपिण्डानां पाण्डिमा जितः ॥ नीलाब्जमधुमत्तालिकुलकोलाहलैरिव । मानसे मदिराक्षीणां, प्रबुद्धः कुसुमायुधः ॥ ४४. अनल्पाक्षीभिराकल्पास्तेनिरे तदनन्तरम् । विजिगीषोरनङ्गस्य, सन्नाहाः सुभटैरिव ।। ज्योत्स्नाजलनिमग्नायाः, कस्याश्चित् कुञ्चितभ्रवः । शरीरे चन्दैनं गौरे, सौरभ्यादन्वमीयत ॥ सर्वत्र व्यक्तशक्तीनां, तुषारद्युतिरोचिषाम् । जगाम वामनेत्राणां, केशपक्षो विपक्षताम् ।। विधृता विश्ववन्धेन, या शिवेनापि मूर्धनि । सा ज्योत्स्ना सुदृशां केशहस्तेन गलहस्तिता ॥ लग्नः पादेषु कान्तानां, नखान्तः प्रतिमामिषात् । याचितुं वक्त्रलावण्यकणिकामिव चन्द्रमाः ॥ ४९ कबरी कैरवाक्षीणां, कबरा केतकीदलैः । हसन्तीव व्यभादाभां, विलक्षामेणलक्ष्मणः ॥ ५० यामिन्यामिन्दुशुक्लायां शुक्लवस्त्रावगुण्ठनाः । धम्मिल्लोद्भावितं विघ्नं, विजघ्नुरभिसारिकाः ॥ ५१ वधूनां वक्त्रमाविद्धं, रत्नकुण्डलकान्तिभिः । प्रियेषु सविलम्बेषु, रोषारुणमिव व्यभात् ॥ ताडपत्रश्रिया न्यस्तनीलाश्मगणवर्णया । पुस्तिकेव चकास्ति स्म, काचित् कामविपश्चितः ॥ . ५३ कुचौ सुवृत्तौ धृतहारयष्टी, सकञ्चुको रेजतुरम्बुजाक्ष्याः । रतेः स्थिताया हृदि रक्षणाय, स्मरप्रयुक्ताविव सौविदल्लौ ॥ आकल्पिता शोभितकेलिशय्या, नियुद्धभूभीव वधूवरस्य । तत्रोपधानच्छलतो बभूव, निवेशवेदी स्मरपार्थिवस्य ॥ १ तपोयतट वा० ॥ २ तारका प्र० ॥ ३ धारसम् मु० ॥ ४ 'रिवाथि वा० ॥ ५ इति वा० मुः ॥ ६ सुनाहाः वर्ण ॥ ७ नं पौरैः, सौं मु० ॥ ८ 'न, श्रीशि मु. ॥. ००० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy