SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सप्तमः · गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं एकावली वक्षसि विस्फुरन्ती, रराज राजीवविलोचनायाः । चेतःशरव्यावधिबोधहेतुलेखा खटिन्येव कृता स्मरेण ॥ दीपप्रभापिञ्जरितानि रेजुरल्पोदरीणां रतमन्दिरागि । आपूर्य चित्तान्यतिरिच्यमानैः, प्रियानुरागैरिव पूरितानि । कुरङ्गनाभीकृतपत्रभैङ्गी, कुचद्वयी चारुदृशचकाशे । सुप्तोत्थितस्य स्मरकुञ्जरस्य, मदाम्बुसिक्ता शयनस्थलीव || माणिक्य-मुक्ताफल-काञ्चनानां, काचिन्मरीचिप्रचयार्चिताङ्गी। खरांशु-शीतांशु-हुताशनानां, महःसमूहैः पिहितेव रेजे || ताम्बूल-वस्त्रा-ऽऽभरण-प्रसून-श्रीखण्डसंस्कारसमाकुलाभिः । । सुलोचनानां परिचारिकाभिरसूच्यत श्रीतनयोत्सवश्रीः ॥ नवं वयश्चित्तमपंतचिन्तमिद्भः सुधांशुमधुरा परिस्रुत् । सख्योऽनुकूलाश्च विलासिनीनां खिदे तदा कान्तविलम्ब एव । अनिच्छतीनां निजमानभङ्ग, सङ्गं प्रियैः सत्वरमिच्छतीनाम् । अथेगितज्ञस्य मनस्विनीनां, दूतीजनस्यावसरो बभूव ।। विद्वानपूर्वः सितरोचिरेषः, कृतव्यलीकैः सह कामुकैर्यः । लुप्ते प्रकोपेऽथ विसर्जनीये, सन्धि विधत्ते स्म वधूजनस्य ।। विभिन्नयोरह्नि रुषा रजन्यामुदञ्चदुच्चैरनुतापयोश्च । स्त्री-पुंसयोः सङ्गमनच्छलेन, प्रागप्रदा काऽपि बभूव भूयः ।। मानार्गलां काऽपि विलय वेश्म, गन्तुं प्रवृत्ता दयितस्य यावत् । तावत् स एव स्वयमाजगाम, कामः किमिष्टं न करोति तुष्टः ।। विलासवेश्माङ्गणमागतेषु, कृतापराधेष्वपि वल्लभेषु । मनस्विनीनामथ मानमुद्रां, भ्रूमङ्गशेषामकरोदनङ्गः ।। निष्काश्य कामः प्रसभं प्रकोपं, पुनः प्रवेशं प्रतिपे मस्य । अङ्गानि सारङ्गविलोचनानां, चक्रे स्फुटं कण्टकवेष्टितानि ।। किं नेत्रमार्गेण मनोज्ञरूपा, काँध्वना वा मधुरं वदन्ती । नासापथेनाथ सपुष्पवासा, प्रियस्य चित्ते प्रविवेश काचित् ।। अगस्तिभिः संव्यवहार्यतां गतैरनुज्ञयेव द्विजचक्रवर्तिनः । कान्तैः समं कान्तविलोचनाजनः, परिसुतं पातुमथोपचक्रमे ।। कन्दर्पकेलिप्रथमप्रयोगसञ्जातलज्जामुकुलीकृतानि । तदा मदेन प्रकटीबभूवुर्भुग्नब्रुवां विभ्रमचेष्टितानि ।। ....१ 'धिवेध प्र० ॥ २ भङ्गः प्र० । भङ्गि वा० ॥ ३ नदन्ती मु० ॥ ४ मथ चक्र प्र० ॥ ५ वुवामध्रुवां प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy