SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सर्गः।].. कीतिकौमुदीमहाकाव्यम् । असाघु कन्दर्पगुरूपदेशा मद्यं महानन्दमिवाङ्गनाभिः । व्यावृत्तवस्त्वन्तरवासनाभिः, कृता किरीटेऽपि पतत्युपेक्षा ।। मैदाकुलानि प्रमदाकुलानि, विरेजुरापानगृहाङ्गणेषु । हृदि प्रविष्टस्मरचित्रपुङ्खदुःखादिवोधूर्णितमस्तकानि ।। अधरैरधरीकृतं वधूनां, मधुमाधुर्यमवैमि विद्रुमाभैः । दयितैरत एव तेषु पानप्रतिपत्तिर्विहिता विहाय हालाम् ।। परिजनैः प्रथमं गतमन्तिकादपसृतं वसनैर्जघनादथ ।। तदनु यातमथ त्रपया हृदः, स्थितमिहात्मभुवैव नतभ्रुवाम् ।। आलिङ्गितायाः सुभगेन गाढमुदूढरम्भादलमार्दवेभ्यः । स्वेदोदबिन्दुच्छलतोऽपरस्याः, सुस्राव लावण्यमिवाङ्गकेभ्यः ।। सकलमपि वपुर्विभिद्यमानं, मदनशरैरवलोक्य कामिनीनाम् । शरणमिव रदच्छदः प्रपेदे, प्रियवदनं यदलं प्रसह्य पातुम् ।। मैरेयपानच्युतचेतनानां, तासामसाधारणविभ्रमाणाम् । नखाङ्कुशैरप्यनवाप्तसंज्ञो, गम्भीरवेदी मदनद्विपोऽभूत् ।। आह्वातुं विषमशरं पुरोऽनुवाको, दोल्लीवलयरवोऽभवद् वधूनाम् । तद्यज्वा मणितमभूच्च मोहनाग्निष्टोमेऽस्मिन् मधुमधुराधरौष्ठसोमे ॥ निगदितुं विधिनाऽपि न शक्यते, सुभटता कुचयोः कुटिलभ्रुवाम् । सुरतसंयति यौ प्रियपीडितावपि नतिं न गतौ च्युतकञ्चुकौ ॥ उपरतसुरतश्रमस्त्रियामासमयविराममनोरमैर्मरुद्भिः । सरसनखपदे हृदि प्रियाणामथ शयितः कृशमध्यमासमाजः ।। अवनमदमृतांशुबिम्बमौलिगलितवया इव शर्वरी व्यराजत् ।। अभजत ककुभं च जम्भजेतुर्जतुरसरक्त इव प्रभाप्रवाहः ।। यातः शीतरुचिः प्रतीचिजलधौ डिण्डीरपिण्डच्छवि-जंम्भारम्भमनोरमा कमलिनी सुप्तोत्थितेवाभवत् । वक्रत्वं च विधिर्विधूय सदयं चक्रेषु चक्रे मनः, सौरेणाजनि कुङ्कुमारुणमिव प्राचीमुख रोचिषा ॥ ८२ देवोऽयं भुवनत्रयैकनयनं प्राप्तः प्रभागां प्रभुः, कर्ता यः कमलोदयं जगदिदं मोहाम्बुधेरुद्धरन् । प्रातल्यः समयो वयोविरुतिभिव्योमेति वर्धापय-नाचिच्छेद तदीयमन्धतमसव्याजेन संव्यानकम् ॥ ८३ ॥ इति श्रीगूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते कीर्तिकौमुदीनाग्निं महाकाव्ये चन्द्रोदयवर्णनो नाम सप्तमः सर्गः ॥ ७॥ १ महाकु मु० ॥ २ 'विम्बच्छ वा० ॥ ३ लतः पर प्र० ॥ ४ कुसुमशरं मु० ॥ ५ नाक्या, द.वा. मु. ॥ ६.तधाज्या मणि' वा० मु० ॥ की. ५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy