SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः। अथ पाथोजिनीनाथे, चुम्बत्याशां बिडौजसः । प्रबुद्धं पङ्कजेनेव, श्रियः पात्रेण मन्त्रिणा ॥ १ कोकद्वन्द्वं तदाऽऽलोक्य, सङ्गतं सम्ममाद सः । परकष्टे विनष्टे हि, सतां प्रीतिः प्रचीयते ॥ उन्मादं वीक्ष्य पद्मानां, कुमुदानां च मन्दताम् । क्षणिकत्वं विभूतीनां, चेतसा निश्चिकाय सः ॥ ३ कदाप्युदयति ध्वान्तं, कदाप्यर्कश्च धिग् विधिम् । तुल्यं नीचेऽप्यनीचेऽपि, स तदेति व्यतर्कयत् ॥ ४ करं चिक्षेप तीक्ष्णांशुर्दुस्तरे तिमिराम्बुधौ । प्रदातुमिव मग्नस्य, भुवनस्यावलम्बनम् ॥ विच्छायास्तिमिरे तुच्छे, रेजुर्दीपाश्चलच्छिखाः । पैङ्कीभूते पयःशेषे, स्फुरन्तः शफरा इव ॥ तीक्ष्णैः सपदि भिन्दानः, कराप्रैस्तिमिरासुरम् । रोषेणेवारुणः पूषा, प्रादुरासीन्नृसिंहवत् ॥ अथोजगाम वामत्वं, कुमुदेषु प्रदर्शयन् । विष्टपव्यवहारैकप्राड्विवाको दिवाकरः ॥ मलिनीभवदाशान्ते, शान्ते ध्वान्तघनोदये । अब्जावतंसितं हंसो, नभःकासारमासदत् ॥ न्यीसीकृताः परं देशं, गच्छता भास्करेण याः । स्फुटं स्फटिकभूर्वह्निः, प्रतिदत्ते स्म तो विभाः ॥ १० विवृतिर्विश्वसूत्रस्य, दृशां निस्तिमिरौषधी । इष्टवार्ता च पद्मानां, दिद्युते द्युमणिद्युतिः ॥ चकोरचक्रवालस्य, पीतशीतज्वरोदयाः । तमश्चक्रमधश्चक्रश्चण्डरोचिर्मरीचयः ॥ प्रसारितकरे सूरसिन्धुरेन्द्रेऽनुधावति । सुमेरुं परिबभ्राम, तमस्तोमः पुरःसरः ।। कुर्वाणः किरणाङ्करैरवतंसश्रियं दिशाम् । नभस्त्रिभागमागच्छदब्जिनीजीवितं विभुः ।। विलोललोचनाः प्रातौलिमाल्यानि तत्यजुः । लोके हि कारणेनैव, गौरवं गुणिनामपि । हृदि प्रियवियुक्तानां, साञ्जना बाष्पबिन्दवः । मग्नानां मारबागानां, पुङ्खा इव विरेजिरे ।। बभ्राजे भुजगाभासं, त्रासयस्तिमिरोत्करम् । सुवर्णरुचिराकारः, सुपर्ण इव भास्करः । ___अथ धर्मैकनिष्णातो, निस्नातः शुचिभिर्जलैः । वस्तुपालस्त्रिकालज्ञं, जगत्पूज्यमपूजयत् ॥ वलक्षेणोत्तरीयेग, स बभौ बुद्धिमत्तरः । तुरीययुगीतेन, सुकृतेनेव संश्रितः ।। मत्सरज्वरसन्तप्तं, मन्ये मुक्वाऽयमानसम् । आदिनाथः स्थितस्तस्य, हृदि सौहार्दशीतले ॥ २० भाले तस्य विभाति स्म, चान्दनी तिलकाकृतिः । कृता सुकृतिनां मध्ये, रेखा मुख्येव वेधसा ॥ अलिङ्गितः शमेनेव, पृथग्भूतः कलेरिव । सवृत्तेनेव निर्वृत्तः, स तदा शुशुभे भृशम् ।। देवेन्द्रं स्तुवतस्तस्य, रेजुर्दशनदीप्तयः । तत्कालोन्मीलितानन्दसुधांशुकिरणश्रियः ॥ दत्वा दानानि पात्रेभ्यो, नत्वा गुरुजनं च सः । सत्त्वाश्रितेन चित्तेन, भवं भावितवानिति ॥ २४ अहो ! संसारकारान्तर्मायानिगडितात्मनाम् । जायते जातु जन्तूनां, न कथञ्चन निर्वृतिः ॥ २५ केचिद् द्युम्नाय धावन्ति, प्रद्युम्नाय च केचन । नोद्युङ्क्ते कोऽपि धर्माय, सर्वाभिप्रेतहेतवे ॥ मोद॑मानोऽन्तरात्मैव, साक्षी यत्कर्म शर्मणे । तमप्युपेक्षते धर्ममहो ! मूढमना जनः ॥ २७ यस्मिन् सन्निहिते वह्नि-विषाद्याः प्रभवन्ति नै । धर्मादप्यपरस्तस्मात् , कः शरण्यः शरीरिणाम् ? ॥ २८ धर्मसिद्धौ ध्रुवा सिद्धिद्युम्न-प्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, सम्पत्तिर्दधि-सर्पिषोः ॥ .. २९ १ प्रनष्टे मु० ॥ २ एकीभू प्र० वा० ॥ ३ ताः प्रभाः प्र० ॥४मानान्त बा० ॥ ५ नो प्र० ॥ १॥ २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy