________________
m m m m 40 m 05
mm mm
ur
१ m
m
० 00000
. N m
सर्गः । ] . कीर्तिकौमुदीमहाकाव्यम् । उच्चैर्ग समारोप्य, नरं श्रीराशु नश्यति । दौःस्थ्यदत्तावलम्बोऽथ, स तस्मादवरोहति ॥ ३० जितं लक्ष्मि ! त्वयां यस्यै, जनस्तमपि सेवते । धनं निकारपूर्वं यत् , प्रदत्ते प्रेतनाथवत् ॥ ३१ धनस्वाधर्मलब्धस्य, मुग्धो लाभेन तुष्यति । सुकृतस्य दुरीपस्य, न तु हानिमवेक्षते ॥ असाद्यते. यया स्वर्गः, श्रिया सन्मार्गदत्तया । त्यक्त्वा तामप्यधर्मेण, मूर्खाः श्रीगन्ति दुष्कृतिम् ॥ स्वयमुत्पादितां लक्ष्मी, पुत्रीमिव मनीषिणः । दत्त्वा पात्राय तद्दानफलमेवोपभुञ्जते ॥ पित्राद्यैरुपभुक्ता या, पुत्राधैरैपि भोक्ष्यते । कामयन्ते न तां सन्तो, ग्रामवेश्यामिव श्रियम् ।। तस्करैर्वा ईरीशैर्वा, हृतं संसहते धनम् । कदर्यो नैव सत्कार्ये, कल्पयत्यल्पमप्यदः ।। अन्धा एव धनान्धाः स्युरिति तथ्य तथाहि ये । अन्योक्तेनावना गच्छन्त्यन्यहस्तावलम्बिनः ॥ धनी धनात्यये जाते, दूरं दुःखेन दूयते । दीपहत्तः प्रदीपेऽस्ते, तमसा बाध्यतेऽधिकम् ॥ आदावेव विकारं यः, प्रदर्शयति देहिनाम् । भवोच्छेदैकभावेभ्यो, विभवः स्वाद्यते स किम् ? ॥ ३९ न संसारस्य वैरस्यमिदं वेत्ति जडो जनः । यत् सुखं स सुखाभासो, यद् दुःखं दुःखमेव तत् ॥ ४० रमयन्ति मनस्तावद्, भावाः संसारससम्भवाः । यावन्न श्रूयते साश्रुलोकैंपूत्कारकाहला ॥ अहो ! देहभृतां मोहः, प्ररोहति महानयम् । यदेते सुखमिच्छन्ति, विषयैर्दुःखहेतुभिः ॥ छत्रच्छायाच्छलेनामी, धात्रा चक्रे निवेशिताः । भ्रमन्तोपि स्वमात्मानं, मन्वते स्थिरमीश्वराः ॥ मदान्धास्ते परं लोकं, कथं, पश्यन्तु भूभुजः ? । तमोमण्डलमध्यस्था छत्रच्छायांच्छलेन ये॥ ४४ सुखं विषयसेवेति, सक्तास्तत्रैव जन्तवः । यः प्रमोदस्तु तत्त्यागात् , तदास्वादः कचिद् यदि ॥ ४५ अवश्यं नश्वरे देहे, दुर्दमे, च यमे द्विपि । हौस्यमास्याद् विनियति, यत् पुंसामिदमद्भुतम् ।। ४६ कालेन शौनिकेनेव, नीयमानो जनः पशुः । क्षिपत्येष विगासने, मुखं विषयशाद्वले ॥ कायः कर्मकरोऽयं तनात्र कार्याऽतिलालना । भृतिमात्रोचितो ह्येष, प्रपुष्टो विचिकीर्षते ॥ ४८ प्रयोजकान्यकार्येषु, नश्यन्त्याशु महापदि । दुर्मित्राणीव खान्येव, बन्धुबुद्धिरधीमताम् ॥ ४९ योऽयं जीवितभूतेषु, स्नेहप्रन्थिः सुतादिषु । विभौगावसरे पुंसां, व्यक्तः सोऽपि भविष्यति ॥ ५० दुःखाग्निर्वा स्मराग्निर्वा, कोधाग्निर्वा हृदि ज्वलन् । न हन्त ! शान्तिमायाति, देहिनामविवेकिनाम् ॥ ५१ अविद्यामेव सेवन्ते, हन्त ! विद्यां व्युदस्य ये । ते दूत्यामनुरज्यन्ते, वरारोहाविहायिनः ॥ ५२ तटस्थः प्रेक्षते योगी, जगदस्मिन् भवार्णवे । मजनोन्मजने कुर्वद्, दुष्कृतैः सुकृतैर्निजैः ॥ ५३ विषयामिषमुत्सृज्य, दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ, बिभ्यत् तेभ्यः पलायते ॥ ५४ सत्यं संसृतिगर्तेयं, दुःखैः पूर्णा निरन्तरम् । यतस्तव्यतिरेकेण, नान्यत् किञ्चिदिहाप्यते ॥ ' ५५ विधौ विध्यति सक्रोधे, वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं जायतां गतिः ॥ ५६
सुचिरमिति विचार्य पुण्यचर्याः, विदुषि चिकीर्षति तत्र तीर्थयात्राम् ।
विदधदथ पैथः प्रशान्तपङ्कान् , ऋतुरपनृत्तमयूरमण्डलोऽभूत् ॥ १.म्बोऽधः, स मु. ॥ २ निकारः पूर्वो यस्मिन् निधनमिति भावः, तच्च मरणम् प्र. टि० ॥ ३ मपेक्ष वा० मु० ॥ ४ क्रीडन्ति वा० मु० ॥ ५ 'धैरुपभों प्र० ॥ ६ दुराशै मु० ॥ ७ 'ति सत्यंत मु० ॥ ८ गाढम् ० टि०॥ ९ स्वदते प्र०॥ १० कफूत्कारकाहल: मु०॥ ११ हास्य नास्या वा० मु० ॥१२ विभवाव वा० मु०॥१३ चयाँ मु० ॥ १४ पयःप्रशान्तपङ्कमृतुरमु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org