________________
गूर्जरेश्वरपुरोहितश्रीसोमेश्वरवेषविरचितं भवमवरमिमं विमृश्य सम्यग् , गलितरसैर्विषयेषु वारिवाहैः । . मुनिभिरिव निबद्धमौनमुद्रैर्गगनवनं विमलात्मभिश्च भेजे ॥ पतिरतितपति स्म वासराणामतिशुभेति स्म विभावरीभुजङ्गः । जलमतिभजति स्म निर्मलत्वं, मधुरमतिध्वनति स्म राजहंसी-।। पुलिनपरिसरे सरस्वतीनामजनि समागमनं मुखञ्जनानाम् ।। भवति यदवलोकनादनाविष्कृतहसितारिमुखं सुखं जनानाम् ॥ क्षितिवलयजयोजिहानवीरा, क्रमविरमजलपूरसिन्धुतीरा।। शरदवतरति स्म मत्तहंसा, दिशि दिशि काशकदम्बकावतंसा ।। कुटजविटपिनः प्रसूनशून्यानलिपटलं परिहृत्य सप्तपर्णैः । सममरमत दन्तिदानगन्धैर्जगति समृद्धमुपैति सर्व एव ॥ विदेलितजगदापदः पयोदाः, परिगलिताम्बुविभूतयो बभूवुः । अहह ! न सहते महीयसामप्युदयमिथं नियतिश्चिरायवैरा ।। घनमयसमयात्यये विनिद्रः, ऋतुपुरुषो भवतीति तथ्यमेव । दधतुरपरथा कथं विकाशं, दिनपति-रात्रिपती तदीयनेत्रे ? ।। सरसिसुरभिः सरःसमीरः, कैलमसमृद्धिसमुद्धता धरित्री । कलमपि कलहंसकामिनीनां, रसितमथ व्यथयाञ्चकार पान्थान् ।। कलयति कलशोद्भवे प्रवेशं, मलयनगस्थगिते नभोविभागे । जगदगदमभूत् पयश्च पेयं, ननु महतामुदयो मुदे न कस्य ! ।। स्तनितमुपरतं पयोधराणां, ध्वनिरजनिष्ट ककुमतां विशिष्टः । परिहृतमवनीतलं शिलिन्धैर्जलमलमक्रियतारविन्दवृन्दैः ।। गवलकुवलयप्रभैः पयोदैवियति वृते व्यधित व्ययं न यस्य । अधिपतिरतिमात्रमुष्णमह्नां, तदिव सुसञ्चितमुत्ससर्ज तेजः ।। भासः सेव्याः श्वेतभासः प्रदोषे, लोकाह्लादोद्दीपिका दीपकाली । दुग्धैर्दिग्धा शर्करा यत्र पथ्य, दिष्ट्या दिष्टः स प्रविष्टः पृथिव्याम् ।। हंसानां नवनलिनीवनोत्सुकानामालापैरिव मुरजिन्मुमोच निद्राम् ।
जम्भारिस्त्रिभुवनभारमुत्थितेऽस्मिन्नारोप्य स्वधनुरथोपसञ्जहार ॥ . स्वच्छं वारि निवारितामरधनुोम व्यपेताम्भसः, पाथोदाः समदा सितच्छदवधूराशाः सकाशाः पुरः । भाति स्म प्रथयन्नहम्प्रथमिकां तेजस्विषूत्तेजितः, श्यामाम्भोधरभस्मनेव शशभृद् दिक्कामिमीदर्पणः ॥ ७१ ॥ इति श्रीगूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचते कीर्तिकौमुदीनाग्नि
महाकाव्ये परमार्थविचारो नामाष्टमः सर्गः ॥ ८॥ -
१ विगलित वा० मु० ॥ २ कमलस वा० मु० ॥ ३ व्यथिते व्ययेन यस्य मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org