SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः। चिकीर्षिता श्रीसचिवेन तीर्थयात्राऽथ सोऽयं' समयः समेतः । महात्मनामीहितकार्यसिद्धौ, विधिविधत्ते हि सदाऽऽनुकूल्यम् ॥ धर्मैकमित्रोपनिमन्त्रणार्थ, तेनार्थिमित्रेण चराः प्रयुक्ताः । न केवलं स्वेन कृतार्थितेन, परैः कृतार्थैः कृतिनः कृतार्थाः ॥ रथानथाऽऽनन्दविसंस्थुलोऽयं, लोकः प्रयाणप्रवणांश्चकार । उपक्रमे पुण्यकृतां क्रियाणां, राभस्यमभ्यस्यति को न साधुः ॥ पाथेयवन्तः पथि योग्ययुग्याः, सोपानहः सोदकभाजनाश्च । श्रीवस्तुपालेन समं जनौघाः, प्रयाणकाय प्रवणा बभूवुः ।। आकारितस्तेन कृतादरेण, दूरादपि श्राद्धजनः समेतः । ययुस्तदीयानि पुनर्यशांसि, दिगन्तरेभ्योऽपि दिगन्तराणि ।। समं समग्रैरपि बन्धुवर्गेनिसर्गबन्धुर्विबुधव्रजस्य । शुभे मुहूर्तेऽथ शुभैर्निमित्तैर्मन्त्री स्वनाथानुमतः प्रतस्थे । पुरः प्रशस्तां फल-पुष्पहस्तां, प्रमोदमानः प्रमदां विलोक्य । निरन्तरात्यां पथि तीर्थयात्रां, मन्त्रीश्वरश्चेतसि निश्चिकाय ।। स्थितः क्षणं क्षीरतरोरधस्तात् , कृतानुवृत्तीन् सुजनान् निवर्त्य । खरस्य वामं स्वरमध्वगामी, शुश्राव सुश्रावकचक्रशक्रः ।। अक्षेषु नित्यं कृतनिग्रहोऽपि, जग्राह तांस्तान् नियमानमात्यः । स्वभावशुद्धाः सुधियो हि तेषां, पावित्र्यलाभाय तथापि लोभः ॥ रथैस्तुरङ्गैः करभैर्महो!जग्मुस्तदा केऽपि कथञ्चनापि । मन्त्रीश्वरे धर्मधराधुरीणे, तस्मिन् विशश्राम भरस्तु तेषाम् ।। न वाहनं यस्य स तस्य यानं, नासीद् धनं यस्य स तस्य वित्तम् । न चीवरं यस्य स तस्य वस्त्रं, कल्पद्रुकल्पः प्रददौ पदव्याम् ।। भुङ्क्ते स्म सर्वेष्वपि भुक्तवत्सु. शेते स्म सुप्तेषु स यात्रिकेषु । प्रबुध्यते स्म प्रथमं तदित्थं, सङ्घप्रभुत्ववतमाचचार ॥ प्रभूतभोज्यानि बहूदकानि, सगोरसान्युन्मदमानवानि । तस्यातिदुर्गेऽपि पथि प्रयाणान्युद्यानलीलासदृशान्यभूवन् । १" शरदा समे ॥ २ निबन्धनार्थ मु० ॥ ३ °न् स्वज प्र० वा० ॥ ४ शक्तः वा० कां ॥ ५ 'दौ पृथिव्याम् वा० मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy