________________
सर्गः । ]
कीर्तिकौमुदीमहाकाव्यम् ।
रागाद् भूपालबल्लाल-मलिकार्जुनयोर्मृधे । गृहीतौ येन मूर्धानौ, स्तनाविव जयश्रियः ॥ दक्षिणक्षितिपं जिल्ला, यो जग्राह द्विपद्वयम् । तद्यशोभिः करिष्यामो विश्वं नश्यद्विपद् वयम् ॥ विहारं कुर्वता वैरिवनितां कुचमण्डलम् । महीमण्डलमुद्दण्डविहारं येन निर्ममे ॥ पादलग्नैर्महीपालैः पशुभिश्च तृणाननैः । यः प्रार्थित इवात्यर्थमहिंसाव्रतमग्रहीत् ||
भूपालोऽजयपालोऽभूत्, कल्पद्रुमसमस्ततः । चक्रे वसुन्धरा येन, काञ्चनैरनकिञ्चना || दण्डे मण्डपिका हैमी, सह मत्तैर्मतङ्गजैः । दत्त्वा पादं गले येन, जाङ्गलेशादगृह्यत ॥ जामदग्न्य इवोद्दामधामभसितभास्करः । क्षत्त्रास्त्रक्षालितां धात्रीं श्रोत्रियत्राचकार यः ॥ दानानि ददतो नित्यं नित्यं दण्डयतो नृपान् । नित्यमुद्वहतो नारीर्यस्याऽऽसीत् त्रिणः समः ॥ धृतपार्थिवनेपथ्ये, निष्क्रान्तेऽत्र शतक्रतौ । जयन्ताभिनयं चक्रे, मूलराजस्तदङ्गजः ।। चापलादिव बालेन, रिङ्खता समराङ्गणे । तुरुष्काधिपतेर्येन, विप्रकीर्णा वरूथिनी ॥ यच्छिन्नम्लेच्छकङ्कालस्थलमुच्चैर्विलोकयन् । पितुः प्रालेयशैलस्य, न स्मरत्यर्बुदाचलः ॥ द्रुतमुन्मूलिते तत्र, धात्रा कल्पद्रुमाङ्कुरे । उज्जगामानुजन्माऽस्य, श्री भीम इति भूपतिः ॥ भीमसेनेन भीमोऽयं, भूपतिर्न कदाचन । बकापकारिणा तुल्यो, राजहंसमक्षमः ॥ मन्त्रिभिर्माण्डलीकैश्व, बलवद्भिः शनैः शनैः । बालस्य भूमिपालस्य, तस्य राज्यं व्यभज्यत ॥ वीरधवलवंशवर्णनम्
अथ तत्रैव चौलुक्यवंशे शाखान्तरोद्गतः । अर्णोराजः स राजर्षिस्तं ममर्ष न विप्लवम् || धवलस्यं सुतेनापि, तेन कृष्णानुकारिणा । राष्ट्रं निष्कण्टकीकर्तुमारेभे सुभटेन तत् ॥ विस्फुरत्तीत्रहेतीनां दवानामिव सर्वतः । दुष्टानां व्यधितानिष्टं, यत्कृपाणपयोधरः || विचिन्वता रुचि हैमीं, द्विषेदुद्वेगदायिना । व्याप्तं यस्य प्रतापेन, यशसा च जगत्त्रयम् ॥ आ सम्भवादुदूढस्य, निर्व्यूढस्य च सङ्गरे । प्राणैरुद्यापनं चक्रे, निजशौर्यव्रतस्य यः ॥
तत्पुत्रः प्रसरत्कीर्तिपताका चुम्बिताम्बरः । श्रीलावण्यप्रसादोऽस्ति, प्रासादः शौर्यसम्पदः ॥ आकाशमिव चन्द्रेण, पारीन्द्रेणेव काननम् । रम्यं तथाऽनतिक्रम्यं कुलं येन बभूव तत् ॥ जघ्ने येनासिदण्डेन, गाढं, नड्डूलनायकः । निर्घातेनैव तेनामी, कम्पन्तेऽद्यापि भूभृतः || न चौरास्तस्य सौराज्ये, दोरात्म्यं कुर्वते कचित् । स्वयमेष पुनः कीर्ति, हरति प्रतिभूभुजाम् ॥ तेजस्तदिह दान्तारि, दशमस्तक-लङ्कयोः । बभूव भुजयोर्यस्य, राम-लक्ष्मणयोरिव ॥ पुण्डरीकं दधत्येकं, राजहंसाननेकशः । आकृष्टारियशः फेना, प्रतस्थे यस्य वाहिनी ॥ समन्ततोऽपि सामन्तगोष्ठश्वैर्निष्ठुरोक्तिभिः । नाssसीन्नृपतिनागस्य यस्य लीलागतिक्षतिः ॥ पुरो मन्दरवद वीक्ष्य यं निष्कम्पतया स्थितम् । विनिवृत्तमुपेत्यापि धाराधीशपयोधिना ॥ दक्षिणः क्षोणिपालोsपि, घनसैन्योऽल्पविक्रमः । येन तद्विपरीतेन, परित्यजति विग्रहम् ॥
१ श्रोत्रियस्य दत्ते श्रोत्रियत्राकरोति वा० टि० ॥ २ समुदायः वा० टि० ॥ ३ वेषः वा० ४ र्णा विरु प्र० वा० ॥ ५ विस्तं नामर्षत विप्ल मु० ॥ ६ वितन्व वा० ॥ ७ षमुद्दे ८ नडूल वा० । नबुल मु० ॥ ९ स्तत्र सौं मु० ॥ १० स्थे तस्य मु० ॥
की ० २
Jain Education International
For Private & Personal Use Only
४८
४९
५०
५१
५२
५३
m m 5 x 8 m + £
५४
५५
५६
५७
५८
५९
६०
६१
६२
६३
६४
६५
६६
६७
६८
६९
७०
• ७१
७२
७३
७४
७५
टि० ॥ वां० ॥
www.jainelibrary.org