SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं [द्वितीयः तत्कर्णा-ऽर्जुनयोःर, पूर्व कर्णः स्मरन्निव । अर्जुनं गमयामास, यशो देशान्तराणि यः ॥ २२ अभिरामगुणग्रामो, रामो दशरथादिव । सूनुः श्रीजयसिंहोऽस्मान्जायते स्म जमजयी ॥ २३ शिशुनाऽपि शुनासीरवीरवृत्तिमतीयुषा । रुषा भुजिष्यतां नीताः, पिशुना येन भूभुजः ।। अपारपौरुषोद्गारं, खङ्गारं गुरुमत्सरः । सौराष्ट्रं पिष्टवानाजी, करिणं केसरीव यः ।। असङ्ख्यहरिसैन्येन, प्रक्षिप्तानेकभूभृता । बद्धः सिन्धुपतिर्थेन, वैदेहीदयितेन वा ॥ अमर्षणं मनः कुर्वन् , विपक्षोर्वीभृदुन्नतौ । अगस्य इव यस्तूर्णमोराजमशोषयत् ।। गृहीता दुहिता तूर्णमर्णोराजस्य विष्णुना । दत्ताऽनेन पुनस्तस्मै, भेदोऽभू दुभयोरयम् ।। द्विषां शीर्षाणि लूनानि, दृष्ट्वा तत्पादयोः पुरः । चक्रे शाकम्भरीशोऽपि, शङ्कितः प्रणतं शिरः ॥ २९ मालवस्वामिनः प्रौढलक्ष्मीपरिवृढः स्वयम् । समित्यपरमारो यः, परमारानमारयत् ॥ ३० क्षिप्त्वा धारापति राजशुकवत् काष्ठपञ्जरे । यः काष्ठापञ्जरे कीर्तिराजहंसी न्यवीविशत् ।। ३१ एकैव जगृहे धारा, नगरी नरवर्मणः । दत्ता येनाथधारास्तु, तधूनां सहस्रधा ॥ धाराभङ्गप्रसङ्गेन, यस्याऽऽसनस्य शङ्कितः । प्राघूर्णकमिषाद् दण्डं, महोबकपतिर्ददौ ॥ सुधेव वसुधा लब्धं, वाञ्छिता येन विद्विषा । यस्योल्लसदसिर्बाहू, राहूचके तमाहवे ॥ ३४ जनेन मेने यः स्वामी, कुमार इव शक्तिमान् । ताम्रचूडध्वजः सोऽभूत् , किन्तु केकिध्वजः परः ॥ ३५ येन विश्वकवीरण, न स राजा जितो न यः । काष्ठा काऽपि न सा यस्य, यशोभिः शोभिता न या॥ ३६ गणेशस्येव यस्याग्र्यपुष्करस्य षस्थितेः । आज्यसारः करस्थोऽभूद , गौडो मोदकवन्नृपः ॥ ३७ श्मशाने यातुधानेन्द्रं, बद्ध्वा बर्बरकाभिधम् । सिद्धराजेति राजेन्दुर्यो जज्ञे राजराजिषु ॥ ३८ रजोभिः समरोद्भूतैर्यत् पुरा मलिनीकृतम् । तत् पश्चात् कीर्तिकल्लोलेर्थेन क्षालितमम्बरम् ॥ .. ३९ महीमण्डलमार्तण्डे, तंत्र लोकान्तरं गते । श्रीमान् कुमारपालोऽथ, राजा रञ्जितवान् प्रजाः ॥ ४० पृथुप्रभृतिभिः पूर्वैर्गच्छद्भिः पार्थिवैर्दिवम् । स्वकीयगुणरत्नानां, यत्र न्यास इवार्पितः ॥ न केवलं महीपालाः, सायकैः समराङ्गणे । गुणैलौकणैर्थेन, निर्जिताः पूर्वजा अपि ॥ सुकृतैकरतेयस्य, मृतवित्तानि मुञ्चतः । देवस्येव तृदेवस्य, युक्ताऽभूदमृतार्थिता ।। करवालजलैः स्नातां, वीराणामेव योऽग्रहीत् । धौतां बाष्पाम्बुधाराभिर्निर्वी गां न तु श्रियम् ।। शूराणां सम्मुखान्येव, पदानि समरे ददौ । यः पुनस्तत्कलत्रेषु, मुखं चक्रे पराङ्मुखम् ॥ हृदि प्रविष्टयद्वाणक्लिष्टेनापूर्णितं शिरः । जाङ्गलक्षोणिपालेन, व्याचक्षाणैः परैरपि । चूडारत्नप्रभाकम्र, ननं गर्वादकुर्वतः । कगशः कुङ्कणेशस्य, यश्चकार शरैः शिरः ॥ Www cc १ इन्द्रः वा० टि० ॥ २ वा इबार्थे वा० टि० ॥ ३ 'राध्वंसप्र मु० ॥ ४ यस्य सान्निध्यश मु० ॥५ महोदयपति प्र० वा० ॥ ६ एतत्वद्यानन्तरमस्मत्पार्श्वस्थप्राचीनप्रतिद्वयेऽप्यनुपलभ्यमानं मुद्रितपुस्तके टिप्पण्यामधिकमेकं पद्यं निष्टङ्कितं वर्तते । तथाहि __ महोबकपुराधीशाजितान्मदनवर्मणः । कोटी: षण्णवतीहेम्नो, यस्तन्मानमिवाऽऽददे ॥ ७ वृषः पुण्यम् , पक्षे मूषकः वा० टि० ॥ ८ यत्र वा० ॥ ९............रते प्र० । वीतरागरते मु० । मुद्रितपुस्तकगतोऽयं पाठः केनचिद् रिक्तस्थाने कल्पयित्वा पूरितः, न चासौ समीचीन इति ॥ १०.राणां तु न श्रि प्र. वा० । निःपतिसुतानां वा० टि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy