SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । चौकुक्यवंशवर्णनम् अथ चौलुक्यभूपालः, पालयामास तत् पुरम् । जितराजसमाजः श्रीमूलराज इति श्रुतः। आवर्जिता जितारातेर्गुणैर्बाणरिपोरिव । गूर्जरेश्वरराज्यश्रीर्यस्य जज्ञे स्वयंवरा ॥ लाटेश्वरस्य सेनान्यमसामान्यपराक्रमः । दुर्वारं बारपं हत्वा हास्तिकं यः समग्रहीत् ॥ सपत्राकृतशत्रूणां सम्पराये स्वपन्निणाम् । महेच्छः कच्छभूपालं लक्षं लक्षं चकारं यः ॥ दानोपैद्रुतद्ारिद्रचं, शौर्यनिर्जितदुर्जनम् । कीर्तिस्थगितकाकुत्स्थं, यो राज्यमकरोच्चिरम् || तस्मिन्नथ कथाशेषे, निःशेषितनिजद्विषि । राजा चामुण्डराजोऽभून्महीमण्डलमण्डनम् ॥ बिरोधिवनिताचित्ततापाध्यापनपण्डिताः । यदीयाः कटकारम्भाः कृतजम्भारिभीतयः || पाणिपङ्कजवर्तिन्या, स्फुरत्कोशविलासया । यस्यासि भ्रमरश्रेण्या, भिन्ना वंशाः क्षमाभृताम् ॥ लोकत्रयोल्लसत्कीर्तिर्महीपतिमतल्लिका । राजा वल्लभराजाख्यस्ततस्तत्तनुभूरभूत् ॥ सम्भूतकम्पसम्पत्तेर्यदातङ्केन केनचित् । जगाल मालवेशस्थ, करवालः करादपि ॥ उपरुन्धन् विरुद्धानां पुरीं पुरुषपौरुषः । जर्गेज्झम्पन इत्येष, विशेषज्ञैरुदीरितः ॥ बभूव भूपतिस्तस्थावरजो विरजस्तमाः । श्रीमान् दुर्लभराजाख्यः सुदुर्लभयशाः परैः ॥ कालेन करवालेन, भोगिनेवाभिरक्षितम् । निधानमिव यद्राज्यमनाहार्थं परैरभूत् ॥ स्वर्वथाऽनुपभोग्येषु, यस्य, सौभाग्यभासिनः । न करः परदारेषु द्विजैंसारेषु चापतत् ॥ तस्य भ्रातृसुतः श्रीमान्, भीमाख्यः पृथिवीपतिः । विष्टपत्रितयाभीष्टप्रवृत्तिप्रतिभूरभूत् ॥ मण्डलाग्रेण यः शैत्यशालिना विस्मृतस्मितम् । चकार भोजमम्भोजमिव पीयूषदीधितिः ॥ एकधारापतिर्यस्य द्विधारेणासिना जितः । किं चित्रं ? यदसौ जेतुं शतधारमपि क्षमः ॥ असौ गुणीति मत्वेव, भोजः कण्ठमुपेयुषा । धनुषा गुणिना यस्य नश्यन्नश्वान्न पातितः ॥ सुपर्णकेतनाभ्यर्ण, तत्र क्षत्रपतौ गते । धात्रीं पोत्रीवें तत्पुत्रः, श्रीकर्णः सार्णवां दधे ॥ गुरुणा विक्रमेणा, बभूव पितृसन्निभः । आकारेण तु रम्येण, भूपोऽभूदात्मभूसदृक् ॥ विना कर्णेन तेन स्त्रीनेत्राणां न रतिः कचित् । इतीव जज्ञिरे तेषमुपकर्णे प्रवृत्तयः ॥ Jain Education International १ २ ३ ४ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ १ नारायणस्य वा० टि० ॥ २ अत्यन्तपीडिताः वा० टि० || ३ संग्रामे वा० टि० ॥ ४ स्वधनुबाम् बा० टि० ॥ ५ महेच्छकच्छभूपालं लक्षं लक्षीचकार मु० ॥ ६ उदारः वा० टि० ॥ ७ लाउ इति नामानम् वा० टि० || ८ लक्षीचकार मु० । वेध्यम् वा० टि० ॥ ९ पहतं मु० ॥ १० कोश: खड्गविधानकम्, पक्षे कुड्मलम् वा० टि० ॥ ११ लोकोत्तरलस प्र० ॥ १२ 'गत्कम्प मु० १३ ब्राह्मणधमेषु षा० टि० ॥ १४ खड्गेन, पक्षे प्रधानमण्डलेन वा० ति० ॥ १५ तीक्ष्णत्त्रम्, पक्षे शीतलत्वम् वा० टि० ॥ १६ हास्यं विकाशश्च वा० टि० || १७ नारायणसमीपम्, स्वर्गमित्यर्थः वा० टि० ११८ 'श्रीं धात्रीप्रपौत्री च श्री मुः ॥ १९ वराहः वा० टि० ॥ २० षामतुक मु० ॥ For Private & Personal Use Only ७ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy