________________
गुर्जरेश्वरपुरोहितश्री सोमेश्वरदेवविरचितं
भाति यत्र कपोलान्तःसङ्क्रान्तेन्दुर्वधूजनः । राजमुद्राङ्कितः कोशः, कन्दर्पनृपतेरिव ॥ यत्र यत्र प्रसर्पन्ति, सलीलं यन्मृगीदृशः । दासीव दृष्टिरन्वेति तत्र तत्र विलासिनाम् ॥ वीक्षिता वलितग्रीवं, तन्वीभिर्यत्र केsपि' ये । मन्ये व्यावर्तिताङ्गेन, तेऽनङ्गेनापि ताडिताः ॥ रूपेणाप्रतिमाः कान्ता, यत्र धात्रा कृताः किल । तथापि प्रतिमास्तासां सञ्जाता रत्नभित्तिषु ॥ स्नात्वा सरसि सौरभ्यं, लीलोद्यानादुपाहरन् । तमीसमीरणः स्त्रैणं, यत्र कामी सेवते ॥ सिद्धसरोवर्णनम्
यस्मिन् सरो हरोपेन्द्रप्रासादैः परितश्चितम् । आमुक्तमौक्तिकं भूमेर्भात्येकमिव कुण्डलम् ॥ आभाति यस्य गभीरं, सरः स्मेरैः सरोरुहैः । खेलन्तीनां सुखं तोयदेवतानां मुखैरिव ॥ यस्यान्तर्गिरिशागारं दीपकाः प्रतिबिम्बिताः । शोभन्ते निशि पातालग्यालमौलिमणिश्रियः ॥ यस्योच्चैः सरसस्तारे, राजते रजतोज्ज्वलः । कीर्तिस्तम्भो नभोगङ्गाप्रवाहोऽवतरन्निव ॥ हरप्रासादसन्दोहमनोहरमिदं सरः । राजते नगरं तच्च, राजहंसैरलङ्कृतम् ॥
सशङ्ख - चक्रः प्रथितप्रभूतावैतारशाली कमलाभिरामः ।
-
स एष कासारशिरोवतंसः, कंसप्रहतुः प्रतिमां बिभर्ति |
न मानसे मायति मानस मे, पम्पा न सम्पादयति प्रमोदम् । अच्छोदमच्छोदकमप्यसारं, सरोवरे राजति सिद्धभर्तुः ॥ प्रतितटघटितोर्मिघातजातप्रसृमरफेनकदम्बकच्छलेन ।
रहसितसितद्युतिं स्वकीर्ति, दिशि दिशि कन्दलयत्ययं तडागः ॥
अलघुलह रिलिप्तव्योमभागे तडागे, तरलतुहिनपिण्डापाण्डुडिण्डीरदम्भात् । तरुणतरणितापव्यापदापन्नमुच्चैरिह विहरति ताराचक्रवालं विशालम् ॥
एकत्र स्फुटदव्जराजजिरजसा बभ्रुकृतः सुभ्रुवां, प्रभ्रश्यत्कुचकुम्भकुङ्कुमरसैरन्यत्र रक्तीकृतः । अन्यत्र स्मितनीलनीरजलदलच्छोयेन नीलीकृतः, श्रेयः सिन्धुरवर्णकम्बलेधुरां धत्ते सरः शेखरः ॥ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्री सोमेश्वरदेवविरचिते कीर्तिकौमुदीनाम्नि महाकाव्ये नगरवर्णनो नाम प्रथमः सर्गः ॥
Jain Education International
[ प्रथमः
६७
६८
६९
For Private & Personal Use Only
७०
७१
13 23 129
७२
७३
७४
193
७६
७७
७८
७९
८०
१ पि यत् प्र० मु० ॥ २ 'पि पीडिताः वा० ॥ ३ 'दीपिकाः मु० ॥ ४ चक्रप्रथितः प्रभू ० ॥ ५ अवतारास्तीर्थाभिधाः पक्षे " मत्स्यः १ कूर्मो २ वराह ३ श्व" इत्यादि दशावताराः बा० टि० ॥ ६ प्रतिभां प्र० ।। ७ से मेद्य मुः ॥ ८ देवसरोवरं श्रीसिद्धराज जयसिंहदेवस्थ वा० टि० ॥ ९ हरिहरहसितद्युतिं मुः ॥ १० अप्यत्र प्र० वा० ॥ ११ “ सेनाशालासुराच्छाया - " २ १ ४ । २५ । इति न पुंस्त्वम् बा० टि० । १२ वर्ण्यक' प्रः ॥ १३ धुरं मु० ॥
८१
www.jainelibrary.org