SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सर्गः । ] कीतिकौमुदीमहाकाव्यम् । सोऽस्ति कश्चन यो दृष्टोऽप्यशुद्धानां विशुद्धये । तेऽपि तिष्ठन्ति ये दृष्टाः, शुद्धानामप्यशुद्धये ॥ ४३ कवेः वस्तुपालचरितवर्णनप्रतिज्ञा कुलमुञ्चलमाकारं, चारुमाचारमुत्तमम् । दानं सम्मानसम्पन्नमुन्नतिं नमिताहिताम् ॥ ४४ प्रज्ञामाङ्गिरसावज्ञां, दयां भन्नभयोदयाम् । श्लोकं भूषितभूर्लोकं, मन्त्रितां न्याययन्त्रिताम् ।। विलोक्य वस्तुपालस्य, भक्तिं चात्मनि निर्भराम् । श्रीसोमेश्वरदेवेन, तत्स्वरूपं निरूप्यते ॥ त्रिभिः कुलकम् ॥ ४६ मन्त्रीशगुणमाणिक्यश्रेणिलाभमहोत्सवे । श्रीसोमेश्वरदेवस्य, गातुमुत्ताम्यतीव गीः ।। अणहिल्लपनननगरवर्णनम् - ____ अन्त हस्तिमदल्लेदविराजद्गोपुरं पुरम् । अणहिल्लपुरं नाम, धाम श्रेयःश्रियामिह ।। कृतहारातुकारेण, प्राकारेण चकास्ति यत् । सुकृतेन वृतीभूय, त्रायमाणं कलेरिव ।। अनेकानोकहच्छन्ना, प्रत्यासन्ना वनावलिः । यत्रोन्नतस्य वप्रस्थ, च्छायेव प्रतिभासते ॥ चन्द्रशालासु बालानां, खेलन्तीनां निशामुखे । यत्र वक्त्रश्रिया भाति, शतचन्द्रं नभस्तलम् ॥ कुत्रापि श्रुतिनिघोषैः, क्वचिन्मङ्गलगीतिभिः । बन्दिकोलाहलैः कापि, यत् सदा मुखरं पुरम् ॥ धौतेव सुधया यत्र, तुषारेणेवे भूषिता । रचिता रजतेनेव, राजते सौधपद्धतिः ॥ दत्तचित्तप्रसादेषु, प्रासादेषु सदा वसन् । यत्र शम्भुर्न कैलासबिलासमभिलष्यति ॥ यस्मिन् होमानलोद्भूतधूमधोरणिरुचती । विभाति भानुकन्येव, स्वर्गङ्गासङ्गमोन्मुखी ॥ यत्र सौधांशुविध्वस्तसमस्ततिमिरे पुरे । न स्वैरिणीसँपक्षस्य, पक्षस्य भवति क्षणः ॥ लङ्का शङ्कावती चम्पा, साकम्पा विदिशा कृशा । काशिर्नाशितसम्पत्तिमिथिला शिथिलादरा ॥ ५७ त्रिपुरी विपरीतश्रीमथुरा मन्थराकृतिः । धाराऽप्यभून्निराधारा, यत्र जैत्रगुणे सति ॥ युग्मम् ॥ ५८ पुरान्तराणि निर्जित्य, जेतुं पौरन्दरं पुरम् । पत्त्रालम्बं करोतीव, यत् प्रासादध्वजांशुकैः ।। ५९ यमुनेव मॅधूपन्नं, साकेतं सरयूरिव । गजाह्वथं च गङ्गेव, सेवते यत् सरस्वती ॥ भान्ति देवालया यस्मिन् , हिमालयसमश्रियः । भूतलं व्याप्य भूपानां, कीर्तिकूटा इवोद्गताः ॥ जातशैत्यश्चलच्चैत्यपताकापवनैः क्षणम् । अरुणस्तरुणेनापि, यत्र पूष्णा न पीड्यते ॥ यत्र नारीमनश्चौरान् , पौरान सौराज्यराजिते । निगृह्णन्निषुभिः पौष्पराज्यं कुरुते स्मरः ॥ . ६३ कौरवेश्वरसैन्यस्य, यत्पौरस्त्रीजनस्य च । वल्गद्गाङ्गेय-कर्णस्य, न पश्याम्यहमन्तरम् ॥ यस्य राजपथे पांसुः, सिक्तः कुम्भिमदाम्बुभिः । ऊर्वमभ्युद्धतोऽप्येति, न रङ्गद्भिस्तुरङ्गमैः ॥ ६५ गृहीतभूरिदण्डानां, विडम्बितमहीभुजाम् । यत्रत्यानां नरेन्द्राणां, प्रासादानां च नान्तरम् ॥ ६६ १ अङ्गिरसम्य बृहस्पतेरवज्ञा यस्याः ताम् वा० टि० ॥२ निगद्यते वा० ॥ ३ प्रतोल्यः वा० टि० ।। ४ व रूषि ० ॥ ५ जतेनैव मु० ॥ ६ द्यता मु० ॥७ सहायस्य वा० टि० ॥ ८ सकम्पा मु० ॥ ९ विदशा प्रक। विशदा कू वा० ॥ १० मथुरानगरी वा० टि० ॥ ११ कोशलानगरी वा० टि०॥ १२ सरयूर्नाम नदी वा० टि० ॥ १३ भूतानां प्र. मु० ॥१४ चलद्गा प्र० ॥ १५ भ्युद्धता मु० ॥ wr ur Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy