SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ४ .. गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं । प्रथमः विल्हणस्य कवेः प्राप्तप्रसादैव सरस्वती । नीयते जातु कालुष्यं, दुर्जनैर्न घनैरपि ॥ सदा हृदि वहेम श्रीहेमसूरेः सरस्वतीम् । सुवत्या शब्दरत्नानि, ताम्रपर्णी जिता यया ॥ म्तुमः सुमनसां श्रेष्टं, नीलकण्ठमहर्निशम् । दर्पकोपचितं यस्य, सर्वज्ञस्यं न मानसम् ॥ श्रीमहादनदेवोऽभूद्, द्वितयेन प्रसिद्धिमान् । पुत्रत्वेन सरस्वत्याः, पतित्वेन जयश्रियः ॥ श्रीभोज-मुञ्जदुःखार्ता, रम्यां वर्तयता कथाम् । प्रहादनेन साह्लादा, पुनश्चक्रे सरस्वती ॥ कवीन्द्रश्च मुनीन्द्रश्च, नरचन्द्रो जयत्ययम् । प्रशस्तिर्यस्य काव्येषु, सङ्क्रान्ता हृदयादिव ॥ मुनेर्विजयसेनस्य, सुधामधुरया गिरा । भारतीमजुमञ्जीरस्वरोऽपि परुषीकृतः ॥ मुभटेन पदन्यासः, स कोऽपि समितौ कृतः । येनाधुनाऽपि धीराणां, रोमाञ्चो नापचीयते ॥ स्ववाक्पाकेन यो वाचां, पाकं शास्त्यपरान् कवीन् । स्वयं हरिहरः सोऽभूत् , कवीनां पाकशासनः ।। २५ न माघः श्लाघ्यते कैश्चिन्नाऽभिनन्दोऽभिनन्द्यते । निष्कलः कालिदासोऽपि, यशोवीरस्य सन्निधौ ।। २६ प्रकाश्यते सदा साक्षाद् , यशोवीरेण मन्त्रिणा । मुखे दन्तद्युता ब्राह्मी, करे श्रीः स्वर्णमुद्रया ॥ २७ अर्जितास्ते गुंणास्तेन, चाहमानेन्द्रमन्त्रिणा । विधेरब्धेश्च नन्दिन्यौ, यैरनेन नियन्त्रिते ॥ २८ वस्तुपाल-यशोवीरौ, सत्यं वाग्देवतासुतौ । एको दानस्वभावोऽभूदुभयोरन्यथा कथम् ? ॥ २९ सज्जन-दुर्जनवर्णना - हुँदा यादःपरित्यक्ता, निर्व्याला मलयद्रुमाः । अमालिन्यकृतो दीपाः, श्रीपात्रं सन्तु साधवः ॥ ३० साधूनां लुब्धता काचिदचिन्त्यैव तथाहि ये । परेषामेव गृहणन्ति, गुणान् भूरिगुणा अपि ॥ ३१ रमयन्ति न कं नाम, सन्त छायाद्रुमा इव । पुष्प्यन्ति स्मितपुष्पं ये, सूचितोच्चैःफलोदयम् ॥ ३२ अमृतैर्मानंसं मन्ये, सपूर्ण सततं सताम् । स्यन्देनेव तदीयेन, वाचो मुञ्चन्ति नाऽऽर्दताम् ॥ ३३ अश्रुप्रवर्तकैधूमैरिव किं तैरसाधुभिः ? । रसवत्यां कवेरुक्तौ, मालिन्यं जनयन्ति ये ॥ ३४ वृश्चिकानां भुजङ्गानां दुर्जनानां च वेधसा । विभज्य नियतं न्यस्तै, विषं पुच्छे मुखे हृदि ॥ ३५ अस्मिन् कलौ खलोत्सृष्टदुष्टवाग्बाणदारुणे । कथं जीवेजगन्न स्युः, सन्नाहाः सजना यदि ? ॥ ३६ निदानं नात्र पश्यामि, यदुपेत्यापि दुर्जनाः । आक्रोशन्ति भृशं साधूनध्वगानिव कुर्कुराः ॥ ३७ दोषझैस्तेन रौंज्ञेव, सह साधनरा सभा । त्याज्याऽवकरभूमीव, सहसा घनरासभा । ३८ दुर्जनैस्तय॑मानस्य, साधोरधिकमेधते । भस्मभिर्मुज्यमानस्य, मुकुरस्येव चारुता । ३९ ___ आस्तां तावत् कृतक्रोधः, सप्रमोदोऽपि दुर्जनः । कष्टाय जायते दृष्टो, रतैवानिव वायसः ॥ ४० दुर्जनानां द्विजिह्वत्वख्यातिरेषा मृषैव यत् । विश्वोपतापिनां तेषामुचिता सप्तजिह्वता ॥ ४१ अस्मिन्नसमयारण्ये, खलवेतालसङ्कुले । चरतः सज्जनालापाः, शिखाबन्धीभवन्तु मे ॥ ४२ १ कविम् , पक्षे ईश्वरम् वा० टि० ॥ २ 'यसिंहस्य मु० ॥ ३ मितौ-प्रमाणग्रन्थे स स कोऽपि पदन्यासः कृतः । पक्षे समिती सङ्ग्रामे वा० टि०॥४ विदुषां वीराणां च वा०टि०॥५ कवीन् जलपक्षिणः हंसान् वा० टि० ॥ ६ इन्द्रः वा० टि० ॥ ७ °न्दोऽपि नन्द्य वा० ॥ ८ सतां सा प्र० वा० ॥ ९३१ (तृतीयैकवचनम् इत्यर्थः) वा० टि० ॥ १० औदार्यादयः, पक्षे रजवः वा० टि०॥ ११ चहूआण वा० टि०॥ १२ हृदापदः मु० ॥ १३ पुष्पन्ति वा० । पुष्यन्ति मु० ॥ १४ राव प्र० वा०॥ १५ तमानि प्र. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy