SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। ॥ नमः सर्वज्ञाय ॥ मङ्गलाचरणम् श्रिये सन्तु सतामेते, चिरं चातुर्भुजा भुजाः । यामिका इव धर्मस्य, चत्वारः स्फुरदायुधाः ॥ १ कुर्वन् गिरिभुवि क्रीडां, दृष्टोन्नतपयोधरः । उल्लसच्चन्द्रकः प्रीति, नीलेकण्ठः करोतु वः ॥ जटा-समिन्तकान्तं वः, श्रियेऽस्तु शिवयोर्वपुः । तातेत्यम्बेति वाऽऽहतं, गुहेन प्रतिवक्ति यत् ॥ ३ भूयान्मुदे तदेकं वः, शिव-केशवयोर्वपुः । करोति प्रणतिं यस्य, भीतः प्रीतश्च मन्मथः ॥ सारस्वतमयं वन्दे, तमोपहमहं महः । अपि सूक्ष्मपदार्थानां, साक्षात्कारं करोति यत् ॥ सरस्वती सदा वन्दे, यदुपास्तिसमुच्छ्रिताः । काव्यानि कुसुमानीव, सुवते कविपादपाः ॥ कविवर्णना . वन्द्यास्ते कवयो येषां, सूक्तिसौरभवासिता । कृतत्रिजगदाह्लादं, कीर्तिभ्रमति भूभुजाम् ॥ ७ जयन्ति कवयः केऽपि, सूक्तैमन्त्रैरिव द्रुतम् । तांस्तांश्चिद्रूपचित्तेषु, रसानावेशयन्ति ये ॥ मधुना लसत्कर्षा, कविषट्पदपमिनीम् । रामायणकवेस्तस्य, हृयां वन्दे सरस्वतीम् ।। स्तुमस्तमेव वाल्मीकि, यत्प्रसादात् प्रशस्यते । लौकैर्दाशरथं वृत्तमपि श्रवणदुःखकृत् ॥ स नमस्यः कथं न स्यात् , सतां सत्यवतीसुतः।। सुपर्वोपचितं चक्रे, यः स्वर्गमिव भारतम् ॥ ११ कालिदासः कविर्जातः, श्रीरामचरितस्य यत् । स एष शर्करायोगः, पयसः समपद्यत । विरक्तश्चेद् दुरुक्तिभ्यो, निर्वृतिं वाऽथ वाञ्छसि । वयस्य ! कथ्यते तथ्य, माघसेवां कुरुष्व तत् ॥ १३ जैनितार्जुनतेजस्कं तमीश्वरमुपाश्रिता । राकेव भारवेर्भाति, कृतिः कुवलयप्रिया ॥ युक्तं कादम्बरीं श्रुत्वा, कवयो मौनमाश्रिताः । बाणध्वनावनध्यायो, भवतीति स्मृतिर्यतः ॥ १५ वचनं धनपालस्य, चन्दनं मलयस्य च । सरसं हृदि विन्यस्य, कोऽभूनाम न निवृतः ॥ १६ १ “गम्यस्याप्ये" (सिद्धहेमसूत्र २-२-६२) इति सूत्रेण चतुर्थी, श्रियं कर्तुं सन्तु इत्यर्थः इति टिप्पणी वा० पुस्तके ॥ २ पार्वत्याम् , पक्षे पर्वतर्भूमौ वा० टि०॥३ स्तना मेघाश्च वा० टि०॥ ४ उल्लसन् चन्द्रो यस्य “शेषाद्वा" ( सिद्धहेम ७-३-१७५) इति बहुव्रीही कच् , पक्षे चन्द्रकाः चांदला इति रूढाः वा० टि०॥५ इश्वरी मयूरश्च वा० टि०॥ ६ चाऽऽहू प्र. वासं०॥ ७ तमहं व प्र० । 'तमयं ब' इति स्थाने 'तमिदं व इति संशोधितः पाठः वा० ॥ ८ °पास्ति स मु० ॥ ९ स्थापनामन्त्रैः वा० टि० ॥ १० स्थापयन्ति न्या..टि ॥ १९ पक्षे सरवणो यो दशरथेन हतः वा० टिप्पणी ॥ १२ कृष्णद्वीपायनव्यासः पा. टि.ir १३ देवाः, पक्षे शोभना अधिकाराः वा. टि० ॥ १४ जनितम् अर्जुनस्य-पार्थस्य बलं येन तम् , अर्याद् युधिष्ठिरम् , पक्षे अर्जुनं-निर्मलम् वा० टि० ॥ १५ तमीश्वरं-चन्द्रम् वा० टि०॥ १६ बाणः कवीश्वरः शराश्च वा० टि० ॥ १७ अणोझउ वा० टि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy