Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ . 44 काव्यमाला। (ततः प्रतिशति राजा मन्त्री च / ) राजा—(कर्ण दत्त्वा।) कार्यपालोचनयातिक्रान्तोऽप्यदिवसो न ज्ञातः। यत इदानीम् पात्रगतं गृहहरिणस्तृष्णया पिबति शीतलं सलिलम् / गन्धेन करोति सुखितं घ्राणं घृतमिश्रशर्करापूपः // अहो प्रमादः। राजसमीपं गमिष्यामीति महानससमीपं गतोऽस्मि / अत एव तथा वर्तुलतनुतरगोधूमापूपसंहितशरावैः माहिषदधिमण्डमिश्रितमाषविरचितभक्ष्यविशेषनिबिडितभाजनैः परितप्ताम्बरीषभर्जितचणकचयपूरितपिण्डकैः फाणितसंकलितयवधानासमुल्लसितविशालामत्रैः दुग्धदधिशर्करासलिलभावितविविधपृथुकराशिसंपूर्णविषङ्कटचषकविशेषैः मलिकामुकुलपुञ्जधवलशालितण्डुलान्नसमुच्चयविराजितताम्रमयभाण्डगणाभ्यन्तरस्थापितसुवर्णसवर्णसूपनिधानपिठरैः कृत्तपरिपक्कवृन्ताककारवेल्लपटोलकोशातकीनिष्पावराजमाषकदलीपनसकूष्माण्डप्रमुखशलाटुखण्डमयशाकषण्डमण्डितबहुविधभाजनविशेषैश्च परिशोभमानस्य महानसस्य विसृमरो गन्धः / घुमघुमायते मे नासाबिलम् / सिलसिलायते तालुरसनामूले सुनिर्गत्वरं लालाजलम् / प्रज्वलतीव हनूमद्वालाग्रलग्नाग्निशिखागृहीतगृहपरम्परं लङ्कापुरमिव बुभुक्षातुरं मे उदरम् / इह खलु महानसद्वारदेशेऽवनतपूर्वकायो विलोक्यते चुलीपावकप्रज्वलनार्थफूत्कारपवनविकीर्णभसितलेशपुञ्जधूसरमुखो निटिलदृश्यमानविरलस्वेदाम्बुकणिकः कराङ्गुलिलग्नहिङ्गुपरिमलसंतर्पितसमीपगतजनघ्राणेन्द्रियः ईषत्संक्रमितेङ्गाललाञ्छित. परिधानपटो दक्षिणकरगृहीतदर्वीशिखरतनुतरदृश्यमानविलोलितशाकपाकबाष्पः अन्यकरलम्बितेन्धनशकलो भद्रमुखो नाम पौरोगवः / तदेनमेव पृ. च्छामि / अये भद्रमुख, त्वया पक्केषु भक्ष्यविशेषेषु किमपि किमपि मम हस्ते दातव्यं यद्भक्षयित्वा इदं सुष्ठ इदं नेति विचार्य कथयामि यत्सुष्टु तत्परिवेष्य राज्ञो हस्तात् पारितोषिकं गृह्णातु भवान् / कथमेष दास्याःपुत्रः 'यदि तव बुभुक्षा तदा राज्ञः समीपं गत्वा भोजनं दातव्यमिति पृच्छ / अहमुदरंभरेस्तव किमपि न दास्यामि' इति भणित्वा महानसाभ्यन्तरं गतः / भवतु / राजसमीपं गमिष्यामि / कथमत्र राजसमीपे विजने अलगर्दैन गृहीत्वा

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360