Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 6 अङ्कः] . जीवानन्दनम् / प्रज्ञागर्ववशान्मदीयविनये जाताभिलाषोऽब्रवी * दित्थं सान्त्वमपथ्यतां निजकुले स्नेहप्रकर्षान्विताम् // 12 // विदूषकः-कहं सन्तं उत्तवन्तो पाण्डू / (क) मत्री-एवम् अप्यस्मत्कुलपक्षपातिनि पथा कामोपभोगप्रदे ___ किं नात्मप्रभवं कुलं गणयसि प्रक्षीयमाणं शनैः / औदासीन्यमिदं कुतस्तव विनोपेक्षां यदि व्यापृता / त्वं नालं बलवानपि प्रभुररिः स्थातुं कुतोऽस्यानुगाः // 53 // अतस्त्वां विज्ञापयामि / संप्रति शत्रुपुरं प्रविशन्ती तत्तदभिमतेन तेन तेन रसेनाशयगतानस्मत्कुलकारकारसवाहिनीभिर्नाडीभिश्च पोषयन्ती राजानमपि स्ववशं नयन्ती भेदय विज्ञानहतकात् इत्युपदिश्य मन्दाग्निना सह प्रेषितवान् / विदूषकः--अच्चरिअं एदाए दूतत्तणं जाए पङ्गुणो वि चालिदा / पेक्ख दाणिं वि किं वि * मन्तअन्ती चिट्ठदि / सुणाहि दाव तूहीओ भविअ / (ख) (ततः प्रविशन्त्यपथ्यतया सह मन्दाग्निवातकफपित्ताः / ) मन्दाग्निवातकफपित्ताः-अयि रसवति, किमु वक्तव्यमस्मदीया रोगा इति / यतस्त्वत्संततिः खल्वेते / त्वयैव वशीकृतेऽस्मिन्राजनि एतत्पुरे सुकरस्तेषां प्रवेशः / वयं तु तत्र निमित्तमात्रम् / कालः–कर्मन्, रसवतीत्यपथ्यताया नामान्तरेण भवितव्यम् / कर्म-रुचिमतीत्यप्येतस्या नाम / विदूषकः-एसा ताडआ विअ भीसणा अणुवट्टदि / (ग) (क) कथं सान्त्वमुक्तवान्पाण्डुः / / (ख) आश्चर्यमेतस्या दूतत्वं यया पङ्गवोऽपि चालिताः / पश्येदानीमपि किमपि मन्त्रयन्ती तिष्ठति / शृणु तावत्तूष्णीको भूत्वा / (ग) एषा ताडकेव भीषणानुवर्तते /

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360