Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 108 . काव्यमाला / . राजा-देवदेव भगवन् , सर्वमपि प्रियमाचरितमेव / सर्वेऽपि मे प्रशमिता रिपवः पुरेऽभू दारोग्यमैक्षिषि भवन्तमुमासहायम् / योगं ततस्त्वदुपदिष्टमवाप्य जीव . न्मुक्तोऽस्मि ते करुणया किमतः प्रियं मे // 34 // तथापीदमस्तु भरतवाक्यम् / पर्जन्यः समयेऽभिवर्षतु फलं वाञ्छानुरूपं महीं प्रौढामात्यनिरूपिते पथि महीपालाः पदं तन्वताम् / .. कर्णालंकृतये भवन्तु विदुषां कान्ताः कवीनां गिरो भूयादस्य कवेश्चिरायुररुजो भक्तिश्च शैवी दृढा // 35 // (इति निष्क्रान्ताः सर्वे / ) . कृतिरियं श्रीमद्भारद्वाजकुलजलधिकौस्तुभस्य श्रीनरसिंहरायमन्त्रिवरनन्दनस्य श्रीमदानन्दरायमखिनः / समाप्तोऽयं ग्रन्थः। . 1. अयं जीवानन्दनप्रणेता श्रीमदानन्दरायमखी नृसिंहरायाध्वरिसूनुख्यम्बकदीक्षितस्य भ्रातृव्यस्तऔरनगरमहीपतेरेकक्षितिपालवंशतिलकस्य शरभापरपर्यायस्य श्रीशाहराजस्य मत्रिप्रवर आसीदित्यादि सर्व जीवानन्दनस्यैतत्प्रणीतस्यैव विद्यापरिणयनाटकस्य च प्रस्तावनातः प्रतीयते. स च शरभमहीपतिः ख्रिस्ताब्दीयसप्तदशशतकपूर्वार्ध आसीदिति स एवास्य समयः. एतत्कृतिषु जीवानन्दनं विद्यापरिणयं चेति नाटकद्वयमस्माभिरुपलब्धम् . जीवानन्दने यद्यपि नास्ति कवित्वचमत्कारस्तथापि संविधामकमनुच्छिष्टं चिकित्साशास्नानुकूलमिति कृत्वैवास्य काव्यमालायां प्रवेशः. तत्र जयपुरराजगुरुकुलप्रसूतभट्टश्रीकृष्णकुमाराणां संग्रहादेकमेवास्य शुद्धं पुस्तकमुपलब्धम्. चिरं विहितेऽप्यन्वेषणे पुस्तस्तकान्तरालाभात्तस्मादेव पुस्तकादेतन्मुद्रणमकारीति भद्रम्..

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360