Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 342
________________ काव्यमाला। .. . . देवी-अणुगेलीअदु अप्पणिव्विसेसो एसो / (क) जीवः-(सहर्षोल्लासरोमाञ्चम् / ) आश्चर्यमाश्चर्यम् / __ भगवन्करुणासमित्समिद्धे दृढनिर्बीजसमाधियोगवह्नौ / - प्रविलापितसर्वचित्तवृत्तिः परमानन्दघनोऽस्मि नित्यतृप्तः // 26 // भगवान्–देवि, झटिति विघटिताखिलपराग्वृत्तिः प्रत्यगात्मैक्यानुभवरूपोऽसंप्रज्ञातसमाधिराविर्भूतो वत्सस्य / यत एवमनुभूतमर्थमनुवदति / देवी-देव, किदत्थो खु एसो जो एवंविधस्स देवाणुग्गहस्सं भाअणं जादो / (ख) भगवान्—संप्रत्येनं व्युत्थाप्य प्रकृतकार्यप्रवणं करोमि / (जीवं प्रति / ) वत्स, अन्यदपि किंचिदनुशासनीयोऽसि / जीवः-(व्युत्थाय / ) भगवन् , अवहितोऽस्मि / भगवान्प्राचीनः सचिवः प्रियस्तव सुहृयो ज्ञानशर्मा मुनिः सोऽन्यस्यापि सुदुर्लभः स भवता मान्यः सदाहं यथा / श्रेयःसंघटनाय हन्त भवतः सत्यं स एवार्हति प्रेयस्त्वैहिकमातनोतु सततं विज्ञानशर्मापि ते // 27 // .. शश्वज्ञानादभिन्नः सन्विज्ञानमपि मानय / एवं सति घटेयातां भुक्तिमुक्ती करे तव // 28 // राजमत्रिणी-(साष्टाङ्गं प्रणम्योत्थाय / ) अनुगृहीतौ स्वः। देवी-सुमरणमेत्तसंणिहिदं गाणसम्माणं सचिवं विण्णाणेण समं मुत्तविरोहं करिअ दुवे वि मन्तिणो रण्णो हत्थे समप्पअन्तेण भअवदा बहुलीकिदं भत्तवत्सलत्तणम् / (ग) (क) अनुगृह्यतामात्मनिर्विशेष एषः / (ख) देव, कृतार्थः खल्वेष य एवंविधस्य देवानुग्रहस्य भाजनं जातः / . (ग) स्मरणमात्रसंनिहितं ज्ञानशर्माणं सचिवं विज्ञानेन समं मुनविरोध कृत्वा द्वावपि मन्त्रिणी राज्ञो हस्ते समपर्यता भगवता बहुलीकृतं भक्तवत्सलत्वम् /

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360