Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 6 अङ्कः] . जीवानन्दनम् / काल:-रसरक्तमांसमेदोस्थिमज्जशुक्ररूपाः परिखात्वेन निरूपिताः / कर्म-एषां वृद्धौ श्लेष्मविद्रधिरक्तविसर्पादयो भवन्ति / कार्ये तु रौक्ष्यश्रमशोषादयः / कालः–युक्तं भवतोक्तम् / मन्त्री एवमेते स्वामिकार्ये बद्धपरिकरा यतन्तु नाम / सन्त्येवैषां प्रतीकारशस्त्राण्यस्मदायत्तानि / विदूषकः-किं एसा वादाली विअ मह अक्खीहिं आउलेदि / (क) राजा-अहो प्रचण्डोऽयमनिलः / तथाहि / ताराच्यावयितुं घनान्विकिरितुं कृत्वार्कतूलोपमा भित्त्वा पातयितुं भुवि क्षितिभृतां तुङ्गानि शृङ्गाणि च / सद्यः शोषयितुं समुद्रमवनीकर्तुं तु पांस्वात्मना द्रागुन्मूल्य च भूरुहान्भ्रमयितुं शक्तो भवत्यम्बरे // 50 // मन्त्री-अयमेव वृद्धिशोषहेतुः परिखाणाम् / एनमुपजीव्योत्कुप्यन्ति शुष्यन्ति च सर्वतः परिखाः। विदूषकः-किं मूढो विअ पेक्खंसि / करेहि एदाणं पडीआरं / (ख) ___ मत्री-अदृष्ट्वा किमेवं प्रलपसि / विदूषकः—(उष्ट्रग्रीविकया विलोक्य / ) अच्चरिअं अचरिअं / एत्थ सत्तासत्ति वइ / वडन्तेसु सत्तुसु एदे वीरा रोअउलं पहरन्दि / (ग) मत्री-तत्र श्लेष्मप्रभृतीरक्तपुत्रांश्चन्द्रप्रभा प्रहरति / विदूषकः-कधं इत्थिआ वि सूराअदि / (घ) - मत्री-रक्तपुत्राणां विसर्पप्लीहप्रभृतीनाममृतगुग्गुलुच(तृ?)णपञ्चका (क) किमेषा वातालीव ममाक्षिणी आकुलयति / (ख) किं मूढ इव पश्यसि / कुतेषां प्रतीकारम् / (ग) आश्चर्यमाश्चर्यम् / अत्र शस्त्राशस्त्रि वर्तते / वर्धमानेषु शत्रुषु एते वीरा रोगकुलं प्रहरन्ति / (घ) कथं स्त्री अपि शूरायते /

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360